वाचस्पत्यम्
मनस्विन् || त्रि० प्रशस्तं मनोऽस्त्वस्य विनि । १ प्रशस्तमनस्के । स्त्रियां ङीप् । “मनस्विनीनां प्रतिपत्तिरीदृशी” कुमारः २ शरभे पु० राजनि० ।
शब्दकल्पद्रुमः
मनस्वी || [न्] पुं, (प्रशस्तं मनोऽस्त्यस्येति । मनस् + विनिः ।)
शरभः । इति राजनिर्घण्टः ॥ प्रशस्तमनोयुक्ते, त्रि । यथा, —
“मनस्विगर्हितः पन्थाः समारोढुमसाम्प्रतम् ॥” इति कारकटीकायां दुर्गादासः ॥