वाचस्पत्यम्
मनीषा || स्त्री ईष—अङ् ईषा मनस ईषा शक० । बुद्धौ अमरः
शब्दकल्पद्रुमः
मनीषा || स्त्री (ईष् + अः । टाप् । मनस ईषा गमनम् । “शकन्धादिषु पररूपं वाच्यम् ।” १ । १ । ६४ । इत्यस्य वार्त्तिकोक्त्या साधुः ।)
बुद्धिः । इत्यमरः । १ । ७ । ५ ॥ (यथा, ऋग्वेदे । १ । ५४ । ८ । “असमं क्षत्रमसमा मनीषा ॥” स्तुतिः । यथा, ऋग्वेदे । ५ । ८३ । १० । “उत प्रजाभ्योऽविदो मनीषाम् ॥” “मनीषां स्तुतिमविद प्राप्तवानसि ॥” इति तद्भाष्ये सायनः ॥)