वाचस्पत्यम्
मनीषिन् || पु० मनीषा अस्त्यस्य इनि । १ पण्डिते अमरः २ बुद्धियुक्त त्रि० ।
शब्दकल्पद्रुमः
मनीषी || [न्] पुं, (मनीषा अस्त्यस्येति । मनीषा + व्रीह्यादित्वात् इनिः ।)
पण्डितः । इत्यमरः । २ । ७ । ५ ॥ (यथा च मनौ । १ । १७ । “यन्मूर्त्त्यवयवाः सूक्ष्मास्तस्येमान्याश्रयन्ति षट् । तस्माच्छरीरमित्याहुस्तस्य मूर्त्तिं मनीषिणः ॥”)
बुद्धियुक्ते, त्रि ॥ (यथा, ऋग्वेदे । १ । १६४ । ४५ । “चत्वारि वाक् परिमिता पदानि तानि विदुर्ब्राह्मणा ये मनीषिणः ॥” “मनीषिणो मेधाविनः ।” इति तद्भाष्ये सायनः ॥)