संस्कृत-शब्दकोशः

मनोजवस मनोजवृद्धि

मनोजवा

शब्दकल्पद्रुमः

मनोजवा || स्त्री (मनो जवत्यत्रेति । जु + अच् टाप् ।)
अग्निजिह्वावृक्षः । इति जटाधरः ॥ (गुणादिविवृतिरस्या अग्निजिह्वाशब्दे ज्ञातव्या ॥ वह्रिजिह्वाविशेषः । यथा, मार्कण्डेये । ९९ । ५४ । “मनोजवा च या जिह्वा लघिमा गुणलक्षणा । तया नः पाहि पापेभ्य ऐहिकाच्च महा- भयात् ॥” स्कन्दस्य मातृगणभेदः । यथा, महाभारते । ९ । ४६ । १६ । “मनोजवा कण्टकिनी प्रघसा पूतना तथा ॥” क्रौञ्चद्वीपस्य नदीविशेषः । यथा, मात्स्ये । १२१ । ८७ । “गौरी कुमुद्वती चैव सन्ध्या रात्रिर्मनोजवा ॥” मन इव जवो यस्याः । वेगविशिष्टायां स्त्रियाम् । यथा, महाभारते । १ । १५६ । १८ । “अहःसु विहरानेन यथाकामं मनोजवा ॥”)



Correction: