वाचस्पत्यम्
मनोज्ञ || त्रि० मनो जानाति ज्ञापयति बोधनाय प्रवणी- करोति अन्तर्भूतण्यर्थे ज्ञा—क । १ मनोहरे अमरः । २ मनःशिलायां रत्नमा० । ३ बन्ध्याकर्कोट्यां, ४ कटभ्यां, ५ जीरके ६ मदिरायाञ्च स्त्री राजनि० । ७ राजपुत्र्यां जटा० ८ सरलकाष्ठे न० रत्नमा० ।
शब्दकल्पद्रुमः
मनोज्ञं || क्ली (मनो जानाति ज्ञापयति तोषय- तीति । अन्तर्भूतण्यर्थे ज्ञा + कः ।)
सरल- काष्ठम् । इति रत्नमाला ॥
शब्दकल्पद्रुमः
मनोज्ञं || त्रि (मनसा जानातीति । ज्ञा + कः । यद्वा, मनः ज्ञापयति तोषयतीति । अन्त- र्भूतण्यर्थज्ञाधातोः कः ।)
मनोहरम् । तत्प- र्य्यायः । सुन्दरम् २ रुचिरम् ३ चारु ४ सुषमम् ५ साधु ६ शोभनम् ७ कान्तम् ८ मनोरमम् ९ रुच्यम् १० मञ्जु ११ मञ्जुलम् १२ । इत्यमरः । ३ । १ । ५२ ॥ मनोहरम् १३ बन्धु- रम् १४ बन्धूरम् १५ पेशलम् १६ पेषलम् १७ सुमनम् १८ वामम् १९ अमिरामम् २० नन्दि- तम् २१ । इति शब्दरत्नावली ॥ (यथा, सुश्रुते । १ । ४६ । अध्याये । “मनोज्ञं शुचि नात्युष्णं प्रत्यग्रमशनं हितम् । पूर्व्वं मधुरमश्नीयात् मध्येऽम्ललवणौ रसौ ॥”)