शब्दकल्पद्रुमः
मनोज्ञा || स्त्री (मनोज्ञ + स्त्रियां टाप् ।)
मनः- शिला । इति रत्नमाला ॥ (यथा, सुश्रुते उत्तरतन्त्रे त्रयोदशाध्याये । “स्विन्नं मनोज्ञाकासीसव्योषाञ्जनकसैन्धवैः ॥”)
राजपुत्त्री । इति जटाधरः ॥ बन्ध्याकर्कोटकी । आवर्त्तकी । स्थूलजीरकः । जाती । मदिरा । इति राजनिर्घण्टः ॥