वाचस्पत्यम्
मनोभव || पु० मनसि भवति भू—अच् । कामदेवे मनोभूप्रभृतयोऽप्यत्र ।
शब्दकल्पद्रुमः
मनोभवः || पुं, (मनसः मनसि वा भवतीति । भू + अच् । मनसः भव उत्पत्तिर्यस्येति वा ।)
कन्दर्पः । इति हलायुधः ॥ (यथा, मार्कण्डेये । १८ । ४१ । “ते तां दृष्ट्वाग्रतो दैत्याः साभिलाषा मनोभवम् । न शेकुरुद्धतं धैर्य्यान्मनसा वोढुमातुराः ॥” मनोजन्ये, त्रि । यथा, भागवते । ६ । १५ । २४ । “दृश्यमाना विनार्थेन न दृश्यन्ते मनोभवाः । कर्म्मभिर्ध्यायतो नाना कर्म्माणि मनसोऽभ- वन् ॥”)