संस्कृत-शब्दकोशः

मनोरम मनोहत

मनोरमा

शब्दकल्पद्रुमः

मनोरमा || स्त्री (मनोरम + स्त्रियां टाप् ।)
गोरोचना । इति राजनिर्घण्टः ॥ बुद्धिशक्ति- विशेषः । तत्पर्य्यायः । तारा २ महाश्रीः ३ ओङ्कारा ४ स्वाहा ५ श्रीः ६ तारिणी ७ जया ८ अनन्ता ९ शिवा १० लोकेश्वरात्मजा ११ खदूरवासिनी १२ भद्रा १३ वैश्या १४ नील- सरस्वती १५ शङ्खिनी १६ महातारा १७ वसुधारा १८ धनन्ददा १९ त्रिलोचना २० लोचना २१ । इति त्रिकाण्डशेषः ॥ (इन्दी- वराख्यविद्याधरस्य कन्या । यथा च मार्क- ण्डेये । ६२ । १३ । “अहमिन्दीवराख्यस्य सुता विद्याधरस्य वै । नाम्ना मनोरमा जाता सुतायां मरुधन्वनः ॥” सप्तसरस्वतीनामेकतमा । यथा, महाभारते । ९ । ३८ । ४ । “मुप्रभा काञ्चनाक्षी च विशाला च मनोरमा । सरस्वती चौघवती सुरेणुर्विमलोदका ॥” तथा च तत्रैव । ९ । ३८ । २४ — २५ । “उद्दालकेन यजता पूर्ब्बं ध्यात्वा सरस्वती । आजगाम सरित्श्रेष्ठा तं देशमृषिकारणात् ॥ पूज्यमाना मुनिगणैर्व्वल्कलाजिनसंवृतैः । मनोरमेति विख्याता सा हि तैर्मनसाकृता ॥” छन्दोविशेषः । तल्लक्षणमुदाहरणञ्च यथा, छन्दमञ्जर्य्याम् । “नरजगैर्भवेन्मनोरमा ।” “तरणिजातटे विहारिणी व्रजविलासिनी विलासतः । सुररिपोस्तनुः पुनातु वः सुकृतशालिनां मनो- रमा ॥”)



Correction: