शब्दकल्पद्रुमः
मनोहर्त्ता || [ऋ] त्रि, (मनो हरतीति । हृ + तृच् ।) मनोहरणकर्त्ता । यथा, — “व्यसनं तेऽपनेष्यामि त्रिलोक्यां यदि भाव्यते । तमानेष्ये वरं यस्ते मनोहर्त्ता तमादिश ॥” इति श्रीभागवते १० स्कन्धे ६२ अध्यायः ॥