शब्दकल्पद्रुमः
मनोहारि || [न्] त्रि, (मनो हरति मनो हर्त्तुं शीलमस्येति वा । हृ + णिनिः ।) मनोहरम् । इत्यमरटीकायां स्वामी । तथाहि । “गाङ्गं वारि मनोहारि मुरारिचरणच्युतम् । त्रिपुरारिशिरश्चारि पापहारि पुनातु माम् ॥” इति वाल्मीकिकृतगङ्गास्तोत्रम् ॥