संस्कृत-शब्दकोशः

मनोहारिन् मन्ज

मनोह्वा

वाचस्पत्यम्

मनोह्वा ||‍ स्त्री० गनःशब्देनाहूयते ह्वे—घञर्थे क । मनःशिलायाम् अमरः ।


शब्दकल्पद्रुमः

मनोह्वा || स्त्री (मनः ह्वयति आह्वयतीवेति । ह्वे + “आतोऽनुपसर्गे कः ।” ३ । २ । ३ । इति कः । टाप् ।)
मनःशिला । इत्यमरः । २ । ९ । १०८ ॥ (अस्याः पर्य्यायो यथा, —
“मनःशिला मनोगुप्ता मनोह्वा नागजिह्विका । नैपाली कुनटी गोला शिला दिव्यौषधिः स्मृता ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)



Correction: