वाचस्पत्यम्
मन्त्रजिह्व || पु० मन्त्र एव जिह्वा आस्वादनसाधनं यस्य । अग्नौ हेमच० । मन्त्रेण दत्तहविरास्त्रादकत्वात्तस्य तथात्वम् ।
शब्दकल्पद्रुमः
मन्त्रजिह्वः || पुं, (मन्त्र एव जिह्वा यस्य ।)
अग्निः । इति हेमचन्द्रः । ४ । १६५ ॥ (यथा, माघः । २ । १०७ । “अमृतं नाम यत् सन्तो मन्त्रजिह्वेषु जुह्वति । शोभैव मन्दरक्षुब्धक्षुभिताम्भोधिवर्णना ॥”)