संस्कृत-शब्दकोशः

मन्त्रतस् मन्त्रदातृ

मन्त्रद

शब्दकल्पद्रुमः

मन्त्रदः || पुं, (मन्त्रं ददातीति । मन्त्र + दा + कः ।)
शिष्यकर्णे तदिष्टदेवमन्त्रप्रदानकर्त्ता । मन्त्र- दातृगुरुः । यथा, —
“परापरगुरूणाञ्च निर्णयं शृणु पार्व्वति ! । आदौ सर्व्वत्र देवेशि ! मन्त्रदः परमो गुरुः । परापरगुरुस्त्वं हि परमेष्ठी त्वहं गुरुः ॥” इति बृहन्नीलतन्त्रे २ पटलः ॥ * ॥
तत्पित्रादीनामपि परमगुरुत्वादिर्यथा, —
“मानवस्य महेशानि ! सङ्क्षेपान्निगदामि ते । गुरुः परमगुरुश्चैव परापरगुरुस्तथा । स्वगुरुः परमेशानि ! साक्षाद्ब्रह्म न संशयः ॥ तत्पिता परमगुरुः स्वयं विष्णुः क्षितौ सदा । तत्पिता परापरगुरुर्म्महेश्वरसमः सदा ॥” इति शाक्तानन्दतरङ्गिणीधृतमहिषमर्द्दिनी- तन्त्रम् ॥



Correction: