संस्कृत-शब्दकोशः

मन्त्रद मन्त्रदीधिति

मन्त्रदातृ

वाचस्पत्यम्

मन्त्रदातृ ||‍ पु० दा—तृच् ६ त० । गुरौ ।


शब्दकल्पद्रुमः

मन्त्रदाता || [ऋ] त्रि, (मन्त्रं ददातीति । मन्त्र + दा + तृच् ।)
मन्त्रदानकर्त्ता । गुरुः । यथा, —
“सर्व्वेषाञ्च गुरूणाञ्च जन्मदाता परो गुरुः । पितुः शतगुणैर्माता पूज्या बन्द्या गरीयसी ॥ विद्यादाता मन्त्रदाता ज्ञानदो हरिभक्तिदः । पूज्यो वन्द्यश्च सेव्यश्च मातुः शतगुणैर्गुरुः ॥ मन्त्रमुद्गीरणेनैव गुरुरित्युच्यते बुधैः । अन्यो वन्द्यो गुरुरयमन्यश्चारोपितो गुरुः ॥ अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया । चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥ अदीक्षितस्य मूर्खस्य निष्कृतिर्नास्ति निश्चितम् । सर्व्वकर्म्मस्वनर्हस्य नरके तत्पशोः स्थितिः ॥ जन्मदातान्नदाता वा मातान्ये गुरवस्तथा । पारं कर्त्तुं न शक्तास्ते घोरे संसारसागरे ॥ विद्यामन्त्रज्ञानदाता निपुणः पारकर्म्मणि । न शक्तः शिष्यमुद्धर्त्तुमीश्वरश्चेश्वरोऽपरः ॥ गुरुर्विष्णुर्गुरुर्ब्रह्मा गुरुर्देवो महेश्वरः । गुरुर्धर्म्मो गुरुः शेषः सर्व्वात्मा निर्गुणो गुरुः ॥ सर्व्वतीर्थाश्रमश्चैव सर्व्वदेवाश्रयो गुरुः । सर्व्ववेदस्वरूपश्च गुरुरूपी हरिः स्वयम् ॥ अभीष्टदेवे रुष्टे च गुरुः शक्तो हि रक्षितुम् । गुरौ रुष्टेऽभीष्टदेवो नहि शक्तश्च रक्षितुम् ॥ सर्व्वे ग्रहाश्च यं रुष्टा यं रुष्टा देवब्राह्मणाः । तमेव रुष्टो भवति गुरुरेव हि दैवतः ॥ न गुरोश्च प्रियश्चात्मा न गुरोश्च प्रियः सुतः । धनं प्रियं न च गुरोर्न च भार्य्या प्रिया तथा ॥ न गुरोश्च परो धर्म्मो न गुरोश्च परन्तपः । न गुरोश्च परं सत्यं न पुण्यञ्च गुरोः परम् ॥ गुरोः परो न शास्ता च नहि बन्धुर्गुरोः परः । देवो राजा च शास्ता च शिष्याणाञ्च सदा गुरुः ॥ यावत् शक्तो दातुमन्नं तावत् शास्ता तदन्नदः । गुरुः शास्ता च शिष्याणां प्रति जन्मनि जन्मनि ॥ मन्त्रो विद्यागुरुर्देवः सर्व्वलब्धो यथा पतिः । प्रतिजन्मनिबन्धेन सर्व्वेषामुपरि स्थिताः ॥ पिता गुरुश्च वन्द्यश्च यत्र जन्मनि जन्मदः । गुरवोऽन्ये तथा माता गुरुश्च प्रतिजन्मनि ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे शचीकृतगुरु- स्तोत्रकथनं नाम ५९ अध्यायः ॥ अपि च । “मान्यः पूज्यश्च सर्व्वेभ्यः सर्व्वेषां जनको भवेत् । अहो यस्य प्रसादेन सर्व्वान् पश्यति मानवः ॥ जनको जन्मदाता च रक्षणाच्च पिता नृणाम् । ततो विस्तीर्णकरणात् कलया स प्रजापतिः ॥ पितुः शतगुणैर्माता पोषणाद्गर्भधारणात् । वन्द्या पूज्या च मान्या च प्रसूरूपा वसुन्धरा ॥ मातुः शतगुणैर्वन्द्यः पूज्यो मान्योऽन्नदायकः । यद्विना नश्वरो देहो विष्णुश्च कलयान्नदः ॥ अन्नदातुः शतगुणोऽभीष्टदेवः परः स्मृतः । गुरुस्तस्माच्छतगुणो विद्यामन्त्रप्रदायकः ॥ अज्ञानतिमिराच्छन्नं ज्ञानदीपेन चक्षुषा । यः सर्व्वार्थं दर्शयति तत्परः कोऽपि बान्धवः ॥ गुरुदत्तेन मन्त्रेण तपसेष्टसुखं लभेत् । सर्व्वज्ञत्वं सर्व्वसिद्धिं तत्परः कोऽपि बान्धवः ॥ सर्व्वं जयति सर्व्वत्र विद्यया गुरुदत्तया । तस्मात् पूज्यो हि जगति को वा बन्धुस्ततो- ऽधिकः ॥ विद्यान्धो वा धनान्धो वा यो मूढो न भजेद्- गुरुम् । ब्रह्महत्यादिभिः पापैः स लिप्तो नात्र संशयः ॥ दरिद्रं पतितं क्षुद्रं नर-बुद्ध्याचरेद्गुरुम् । सोऽशुचिस्तीर्थस्नातोऽपि नाधिकारी च कर्म्मसु ॥ पितरं मातरं भार्य्यां गुरुपत्नीं गुरुं परम् । यो न पुष्णाति कापट्यात् स महापातकी शिव ! ॥ गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः । गुरुरेव परं ब्रह्म गुरुर्भास्कररूपधृक् ॥ गुरुश्चन्द्रस्तथेन्द्रश्च वायुश्च वरुणोऽनलः । सर्व्वरूपो हि भगवान् परमात्मा स्वयं गुरुः ॥ नास्ति वेदात् परं शास्त्रं नहि कृष्णात् परः सुरः । नास्ति गङ्गासमं तीर्थं न पुष्पं तुलसीपरम् ॥ नास्ति क्षमावती भूमेः पुत्त्रान्नास्ति परः प्रियः । न च दैवात् परा शक्तिर्व्रतं नैकादशीं विना ॥ शालग्रामात्परो यन्त्रो न क्षेत्रं भारतात् परम् । परं पुण्यस्थलानाञ्च पुण्यं वृन्दावनं यथा ॥ मोक्षदानां यथा काशी वैष्णवानां यथा शिवः । न पार्व्वतीपरा साध्वी न गणेशात् परो वशी ॥ न च विद्यासमो बन्धुर्नास्ति कश्चिद्गुरोः परः । विद्यादातुः पुत्त्रदारौ तत्समौ नात्र संशयः ॥” इति ब्रह्मवैवर्त्तपुराणे गणपतिखण्डे ४४ अध्यायः ॥



Correction: