शब्दकल्पद्रुमः
मन्त्रवित् || [द्] (पुं, मन्त्रं पञ्चाङ्गमन्त्रणां वेत्तीति । विद् + क्विप् ।)
चरः । इति हेमचन्द्रः । ३ । ३९७ ॥ (यथा, महाभारते । ५ । १९३ । ५ । “एतत् श्रुत्वा द्रुपदो यज्ञसेनः सर्व्वं तत्त्वं मन्त्रविद्भ्यो निवेद्य । मन्त्रं राजा मन्त्रयामास राजन् ! यथायुक्तं रक्षणे वै प्रजानाम् ॥”)
मन्त्रज्ञातरि, त्रि ॥ (यथा, छान्दोग्योपनिषदि । ७ । १ । ३ । “सोऽहं भगवतो मन्त्रविदेवास्मि ॥” मन्त्रं वेदार्थं वेत्तीति । विद् + क्विप् । वेदार्थ- वित् । यथा, मनौ । ३ । १३१ । “सहस्रं हि सहस्राणामनृचां यत्र भुञ्जते । एकस्तान् मन्त्रवित् प्रीतः सर्वानर्हति धर्मतः ॥”)