शब्दकल्पद्रुमः
मन्त्रस्पृक् || [श्] त्रि, (मन्त्रेण स्पृशतीति । “स्पृशोऽनुदके क्विन् ।” ३ । २ । ५८ । इति क्विन् ।) मन्त्रकरणकस्पर्शकर्त्ता । इति सिद्धान्तकौमुदी ॥