वाचस्पत्यम्
मन्थ || क्लेशे अक० विलोडने सक० भ्वा० पर० सेट् । मन्थति अमन्थीत् । मथ्यते ।
वाचस्पत्यम्
मन्थ || पु० मन्थ करणे घञ् । १ मन्थानदण्डे । “सक्तुभिः सर्पिषाभ्यक्तैः शीतवारिपरिप्लुतैः । नात्युष्णो नाति- सान्द्रश्च मन्थ इत्यभिधीयते” इत्युक्ते २ पेयभेदे, “चूर्णे चतुष्पले शीते क्षुण्णद्रव्यं पलं क्षिपेत् । मृत्पात्रे मन्थयेत् सम्यक् तस्माच्च द्विपलं पिबेत्” भावप्र० उक्ते पेयभेदे च । ३ नेत्रमले धरणिः ४ किरणे च शब्दच० । भावे घञ् । ५ आलीडनादौ ।
वाचस्पत्यम्
मन्थ || विलोडे क्य्रा० पर० द्विक० सेष्ट् । मथ्नाति अमन्थीत् । मथ्यते ।
शब्दकल्पद्रुमः
मन्थ || कुन्थे । गाहे । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-सक०-सेट् ।)
मन्थति । कुन्थः कैश्चिन्न मन्यते । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
मन्थ || ग गाहे । इति कविकल्पद्रुमः ॥ (क्र्या०-पर०- सक०-सेट् ।)
गाहो विलोडनम् । ग, मथाति दधि वल्लवी । रथं ममन्थ सहयम् । इति दुर्गा- दासः ॥
शब्दकल्पद्रुमः
मन्थः || पुं, (मथ्यतेऽनेन । मन्थ + करणे घञ् ।)
मन्थदण्डकः । इत्यमरः । २ । ९ । ७४ ॥ (यथा, महाभारते । १२ । ३४३ । ११ । “आमथ्य मतिमन्थेन ज्ञानोदधिमनुत्तमम् । नवनीतं तथा दध्नो मलयाच्चन्दनं यथा ॥” मथ्यते विलोड्यते इति । मन्थ + कर्म्मणि घञ् ।)
साक्तवः । (मथ्नाति स्वकरेण त्रिभुवनं पीडय- तीति । मन्थ + अच् ।)
दिवाकरः । इति मेदिनी । थे, ११ ॥ साक्तवो यथा, —
“सक्तुभिः सर्पिषाभ्यक्तैः शीतवारिपरिप्लुतैः । नात्यच्छो नातिसान्द्रश्च मन्थ इत्यभिधीयते ॥” इति राजनिर्घण्टः ॥ पेयविशेषः । तस्य विधिर्यथा, —
“जले चतुष्पले शीते क्षुण्णं द्रव्यं पलं क्षिपेत् । मृत्पात्रे मन्थयेत् सम्यक् तस्माच्च द्विपलं पिबेत् ॥” क्षुण्णं चूर्णीकृतम् । मन्थयेत् मृद्नीयात् । इति भावप्रकाशः ॥ (मन्थ + भावे घञ् ।)
मारणम् । इति त्रिकाण्डशेषः ॥ नेत्रमलम् । इति धरणिः ॥ नेत्रामयः । इति विश्वः ॥ अंशुः । इति शब्द- रत्नावली ॥ कुन्थनम् । विलोडनम् । इति मन्थधात्वर्थदर्शनात् ॥ (यथा, रघौ । १० । ३ । “अतिष्ठत् प्रत्ययापेक्षसन्ततिः स चिरं नृपः । प्राङ्मन्थादनभिव्यक्तरत्नोत्पत्तिरिवार्णवः ॥”)