वाचस्पत्यम्
मन्द || त्रि० मदि—अच् । १ मूर्खे २ मृदौ ३ अभाग्ये ४ रोगिणि ५ अल्पे ६ स्वतन्त्रे ७ खले च हेम० । ८ मदरते ९ शनिग्रहे १० हस्तिभेदे च पु० मेदि० । ११ यमे त्रिका० । १२ प्रलये च पु० अजयः । १३ ज्योतिषोक्ते रविसंक्रान्तिभेदे १४ ग्रह- गतिभेदे च स्त्री ।
शब्दकल्पद्रुमः
मन्दः || त्रि (मदि + अच् ।)
अतीक्ष्णः । मूर्खः । (यथा, रघुवंशे । १ । ३ । “मन्दः कवियशःप्रार्थी गमिष्याम्युपहास्य- ताम् ॥”)
स्वैरः । अभाग्यः । रोगी । अल्पः । इति मेदिनी । दे, १३ ॥ (यथा, मेघदूते । १ । ४ । “मन्दं मन्दं नुदति पवनश्चानुकूलो यथा त्वाम् ॥” अलसः । यथा, श्रीमद्भागवते । १ । १ । १० । “प्रायेणाल्पायुषः सभ्य ! कलावस्मिन् युगे जनाः । मन्दाः सुमन्दमतयो मन्दभाग्या ह्युपद्रुताः ॥” “मन्दाः अलसाः ।” इति तट्टीकायां श्रीधर- स्वामी ॥)
मदरतः । खलः । इति हेमचन्द्रः । ३ । ४८ ॥
शब्दकल्पद्रुमः
मन्दः || पुं, (मन्दते इति । मदि + अच् ।)
शनिः । (यथा, ज्योतिषे । “शुक्रेन्दुबुधजीवानां वाराः सर्व्वत्र शोभनाः । भानुभूसुतमन्दानां शुभकर्म्मसु केष्वपि ॥”)
हस्तिजातिविशेषः । इति मेदिनी । दे, १३ ॥ यमः । इति त्रिकाण्डशेषः ॥ (यथा, कथा- सरित्सागरे । ३२ । १५५ । “तत्र मन्दमिवालोक्य साभिप्रायः स मां नृपः । पप्रच्छ रे किमीदृक् त्वं सञ्जातः कथ्यतामिति ॥”)
प्रलयः । इत्यजयः ॥ (जठरानलविशेषः । यथा, हारीते चिकित्सितस्थाने ६ अध्याये । “तीक्ष्णः पित्ताधिकत्वेन जायते जठराग्निकः । वातश्लेष्माधिकत्वेन जायते मन्दसंज्ञकः ॥”)