वाचस्पत्यम्
मन्दग || त्रि० मन्दं गच्छति गम ड १ मृदुगामिनि २ शनि- ग्रहे पु० शनि, ज्ञानिपुरुष, वृष, हंस, गज, वरस्थियः इत्येते स्वभावान्मन्दगतयः । णिनि । मन्दगामिन् तत्रार्थे त्रि० स्त्रीयां ङीप् ।
शब्दकल्पद्रुमः
मन्दगः || त्रि (मन्दं अल्पं गच्छतीति । गम् + डः ।)
मृदुगामी । यथा, —
“मन्दगाश्च शनिज्ञानिवृषहंसगजस्त्रियः ॥” इति कविकल्पलता ॥ (पुं, शाकद्वीपस्थजनपदभेदः । यथा, महा- भारते । ६ । ११ । ३३ । “तत्र पुण्या जनपदाश्चत्वारो लोकसम्मताः । मगाश्च मशकाश्चैव मानसा मन्दगास्तथा ॥”)