संस्कृत-शब्दकोशः

मन्दाक मन्दाक्रान्ता

मन्दाकिनी

वाचस्पत्यम्

मन्दाकिनी ||‍ स्त्री मन्दमकति अक—णिनि । १ स्वर्गगङ्गायां “स्वर्गे मन्दाकिनी तथा” पुराणम् । २ संक्रान्तिभेदे च ।


शब्दकल्पद्रुमः

मन्दाकिनी || स्त्री (मन्दाकानि स्रोतांसि सन्त्यस्याः इति । मन्दाक + णिनिः । यद्बा, “मन्दमकितुं शीलमस्याः । णिनिः । यद्वा, मन्दनाम्नः सरसः अकति गच्छतीति । नयनानन्दः ।” इत्यमर- टीकायां रघुनाथचक्रवर्त्ती ।)
स्वर्गगङ्गा । तत्पर्य्यायः । वियद्गङ्गा २ स्वर्नदी ३ सुरदी- र्धिका ४ । इत्यमरः । १ । १ । ५२ ॥ स्वर्गङ्गा ५ देवभूतिः ६ स्वर्णपद्मा ७ सुरेश्वरी ८ । इति शब्दरत्नावली ॥ (यथा, नैषधचरिते । ६ । ८२ । “मन्दाकिनीनन्दनयोर्विहारे देवे भवद्देवरि माधवे वा ॥”)
तस्या विवरणं यथा, —
“प्रधानधारा या स्वर्गे सा च मन्दाकिनी स्मृता । योजनायुतविस्तीर्णा प्रस्थेन योजना स्मृता ॥ क्षीरतुल्यजला शश्वदत्युत्युङ्गतरङ्गिणी । वैकुण्ठाद्ब्रह्मलोकञ्च ततः स्वर्गं समागता ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे जाह्रवी- जन्मप्रस्तावे ३४ अध्यायः ॥ * ॥
संक्रान्ति- विशेषः । अस्य प्रमाणं मन्दाशब्दे द्रष्टव्यम् ॥ (चित्रकूटस्थनदीविशेषः । यथा, महाभारते । ३ । ८५ । ५८ । “ततो गिरिवरश्रेष्ठे चित्रकूटे विशाम्पते । मन्दाकिनीं समासाद्य सर्व्वपापप्रणाशिनीम् ॥” द्वारकास्थनदीविशेषः । यथा, महाभारते । हरिवंशपर्व्वणि । १५५ । २२ । “वैदूर्य्यपत्रैर्ज्जलजैस्तथा मन्दाकिनी नदी । भाति पुष्करिणी रम्या पूर्ब्बस्यां दिशि भारत ! ॥” छन्दोविशेषः । यथा, छन्दोमञ्जर्य्याम् । “न न र र-घटिता तु मन्दाकिनी ॥” उदाहरणादिकन्तु छन्दःशब्दे द्रष्टव्यम् ॥)



Correction: