वाचस्पत्यम्
मन्दाक्रान्ता || स्त्री “मन्दाक्रान्ता जलधिषडगैर्म्मौ नतौ तो गुरू चेत्” वृ० र० उक्ते सप्तदशाक्षरपादके छन्दोभेदे ।
शब्दकल्पद्रुमः
मन्दाक्रान्ता || स्त्री (मन्दं यथा तथा आक्रान्ता ।)
छन्दोविशेषः । यथा, —
“चत्वारः प्राक् सुतनु गुरवो द्वौ दशैकादशौ चे- न्मुख्यौ वर्णौ तदनु कुमुदामोदिनि ! द्वादशान्त्यौ । तद्बच्चान्त्यौ युगरसहयैर्यत्र कान्ते ! विरामो मन्दाक्रान्तां प्रवरकवयस्तन्वि ! तां संगिरन्ते ॥” इति श्रुतबोधः ॥ (अल्पाक्रान्ता । यथा, —
“मन्दाक्रान्ता वितरति रसं नेक्षुयष्टिः सम- ग्रम् ॥” इत्युद्भटः ॥)