संस्कृत-शब्दकोशः

मन्दाक्रान्ता मन्दाग्नि

मन्दाक्ष

वाचस्पत्यम्

मन्दाक्ष ||‍ न० मन्दं सङ्कुचितमक्षि यस्मात् षच्समा० । १ ल- ज्जायाम् अमरः । ६ ब० २ सङ्कुचितनेत्रे स्त्रियां ङीष् ।


शब्दकल्पद्रुमः

मन्दाक्षं || क्ली (मन्दे सङ्कुचिते अक्षिणी नेत्रे यस्मात् । “अक्ष्णोऽदर्शनात् ।” ४ । ४ । ७६ । इति समा- सान्तः अच् ।)
लज्जा । इत्यमरः । १ । ७ । २३ ॥ (यथा, नैषधचरिते । ३ । ६१ । “मन्दाक्षमन्दाक्षरमुद्रमुक्त्वा तस्यां समाकुञ्चितवाचि हंसः । तच्छंसिते किञ्चन संशयालु- र्गिरा मुखाम्भोजमयं युयोज ॥”)



Correction: