संस्कृत-शब्दकोशः

मन्दाक्ष मन्दायुस्

मन्दाग्नि

वाचस्पत्यम्

मन्दाग्नि ||‍ पु० मन्दः पचने अल्पशक्तिकः अग्निः अनलः, स यस्माह्रा । १ देहस्थे अपचनशक्तिकेऽनले २ तद्धेतौ रीगभेदे च । तन्निदानादि यथा “मन्दस्तीक्ष्णोऽथ विषमः समश्चेति चतुर्विधः । कफपित्तानिलाधिक्यात् तत्साम्याज्जाठरोऽनलः । विषमो वातजान् रोगान् तीक्ष्णः पित्तसमुन्नतान् । करोत्यग्निस्तथा मन्दो विका- रान् कफसम्भवान् । समा समाग्नेरशिता मात्रा सम्यग् विपच्यते । अल्पापि नैव मन्दाग्नेर्विषमाग्नेस्तु देहिनः” भावप्र० ।


शब्दकल्पद्रुमः

मन्दाग्निः || पुं, (मन्दः पाचनासमर्थश्चासावग्नि- श्चेति ।)
कफद्वाराल्पजठरानलः । तस्य निदा- नादि यथा, —
“मन्दस्तीक्ष्णोऽथ विषमः समश्चेति चतुर्व्विधः । कफपित्तानिलाधिक्यात्तत्साम्याज्जाठरोऽनलः ॥ विषमो वातजान् रोगांस्तीक्ष्णः पित्तसमुन्न- तान् । करोत्यग्निस्तथा मन्दो विकारान् कफसम्भवान् ॥ समा समाग्नेरशिता मात्रा सम्यग्विपच्यते । अल्पापि नैव मन्दाग्नेर्विषमाग्नेस्तु देहिनः । कदाचित् पच्यते सम्यक् कदाचिच्च न पच्यते ॥” इति माधवकरः ॥ * ॥
तस्यौषधं यथा, —
“चित्रकस्याष्टभागानि शूरणस्य च षोडश । शुण्ठ्याश्चत्वारि भागानि मरीचानां द्वयं तथा ॥ पिप्पली पिप्पलीमूलं विडङ्गानां चतुष्टयम् । अष्टौ मुप्तलिभागाश्च त्रिफलायाश्चतुष्टयम् ॥ द्विगुणेन गुडेनैषां मोदकानि हि कारयेत् । तद्भक्षणमजीर्णं हि पाण्डुरोगञ्च कामलाम् । अतिश्रोणितमन्दाग्निप्लीहाद्यञ्च निवारयेत् ॥” इति गारुडे १९८ अध्यायः ॥ * ॥
अथ जठराग्निविकाराधिकारः । तत्र सन्नि- कृष्टनिदानपूर्ब्बकान् उदराग्निविकारानाह । “कफपित्तानिलाधिक्यात्तत्साम्याज्जाठरोऽनलः । मन्दस्तीक्ष्णोऽथ विषमः समश्चेति चतुर्विधः ॥” तत्र मन्दस्याग्नेर्लक्षणमाह । “स्वल्पापि नैव मन्दाग्नेर्मात्रा भुक्तापि पच्यते । छर्द्दिर्दाहः प्रसेकः स्याच्छिरोगौरवजाठरम् ॥” मन्दाग्निजन्यान् विकारानाह । “मन्दोऽग्निर्द्देहिनां कुर्य्याद्विकारान् कफसम्भ- वान् ॥” * ॥
अथ चिकित्सा । “हरीतकी तथा शुण्ठी भक्ष्यमाणा गुडेन वा । सैन्धवेन युता वा स्यात् सातत्येनाग्निदीपनी ॥ १ ॥ गुडेन शुण्ठीमथवोपकुल्यां पथ्यातृतीयामथ दाडिमं वा । आमेष्वजीर्णेषु गुदामयेषु वर्च्चोविबन्धेषु च नित्यमद्यात् ॥ २ ॥ व्योषं दन्ति त्रिवृच्चित्रं कृष्णामूलं विचूर्णितम् । तच्चूर्णं गुडसंमिश्रं भक्षयेत् प्रातरुत्थितः ॥ एतद्गुडाष्टकं नाम बलवर्णाग्निवर्द्धनम् । शोथोदावर्त्तशूलघ्नं प्लीहपाण्ड्वामयापहम् ॥” सर्व्वचूर्णसमो गुडो देयः । गुडाष्टकम् ॥ ३ ॥ “दहनाजमोदसैन्धवनागरमरिचानि चाम्ल- तक्रेण । सप्ताहादग्निकरं पाण्ड्वर्शोनाशनं परमम् ॥” * ॥
वैश्वानरः क्षारः । “सामुद्रलवणं ग्राह्यमष्टकर्षमितं बुधैः । सौवर्च्चलं पञ्चकर्षं विडसैन्धवधान्यकम् ॥ पिप्पली पिप्पलीमूलं पत्रकं कृष्णजीरकम् । तालीशं केशरं चव्यमम्लवेतसकं तथा । द्विकर्षमात्राण्येतानि प्रत्येकं कारयेद्- बुधः ॥ ५ ॥ मरिचं जीरकं विश्वमेकैकं कर्षमात्रकम् । दाडिमं स्याच्चतुष्कर्षं त्वगेले वार्द्धकर्षके । एतच्चूर्णीकृतं सर्व्वं लवणं भास्कराभिधम् ॥ भक्षयेच्छाणमानं तत् तक्रमस्तुककाञ्जिकैः । वातश्लेष्मभवं गुल्मं प्लीहानमुदरं क्षयम् ॥ अर्शांसि ग्रहणी कुष्ठं विबन्धञ्च भगन्दरम् । शूलं शोथं श्वासकासावामदोषञ्च हृद्रुजम् ॥ अश्मरीं शर्कराञ्चापि पाण्डुरोगं कृमीनपि । मन्दाग्निं नाशयेदेतद्दीपनं पाचनं परम् ॥ हिताय सर्व्वलोकानां भास्करेणैतदीरितम् । हन्यात् सर्व्वाण्यजीर्णानि भुक्तमात्रमसंशयम् ॥ निम्बुरसादिकं दत्त्वा गुटिकामप्येके कुर्व्वन्ति ॥ ६ ॥ टङ्गणं रसगन्धौ च समं भागं त्रयं विषात् । कपर्द्दः सर्ज्जिकाक्षारो मागधी विश्वभेषजम् ॥ पृथक् पृथक् कर्षमात्रं वसुभागमिहोषणम् । जम्बीराम्लैर्दिनं घृष्टं भवेदग्निकुमारकः ॥ विशुचीशूलवातादिवह्निमान्द्यप्रशान्तये ॥” क्षारो यवक्षारः । अग्निकुमारो रसो विशु- च्याद्यजीर्णे ॥ ७ ॥ “पारदामृतलवङ्गगन्धकं भागयुग्ममरिचेन मिश्रितम् । तत्र जातिफलमर्द्धभागिकं तिन्तिडीफलरसेन मर्द्दितम् ॥ वह्रिमान्द्यदशवक्त्रनाशनो रामबाण इति विश्रुतो रसः । संग्रहग्रहणिकुम्भकर्णकं सामवातखरदूषणञ्जयेत् ॥ दीयते तु चणकानुमानतः सद्य एव जठराग्निदीपनः । रोचकः कफकुलान्तकारकः श्वासकासवमिजन्तुनाशनः ॥” ८ ॥ पारदभागः १ विषभागः १ लवङ्गभागः १ गन्धकभागः १ मरिचभागः २ जातीफलभागः ॥ ० । रामबाणो रसोऽजीर्णे । इति भाव- प्रकाशः ॥ (विवरणमस्य यथा, —
“अग्निश्चतुर्व्विधः प्रोक्तः समो विषमतीक्ष्णकः । मन्दस्तदापरः प्रोक्तः शृणु चिह्रानि साम्प्रतम् ॥ वातपित्तकफे साम्यात् समत्वं जायतेऽनलः । तैरेव विषमं प्राप्ते विषमो जायतेऽनलः ॥ तीक्ष्णः पित्ताधिकत्वेन जायते जठराग्निकः । वातश्लेष्माधिकत्वेन जायते मन्दसंज्ञकः ॥” इति हारीते चिकित्सितस्थाने षष्ठेऽध्याये ॥ “अन्नमण्डं पिबेदुष्णं हिङ्गुसौवर्च्चलान्वितम् । विषमोऽपि समस्तेन मन्दो दीप्येत पावकः ॥” “सिन्धूत्थहिङ्गुत्रिफलायमानी- व्योषैर्गुडांशैर्गुडिकां प्रकुर्य्यात् । तैर्भक्षितैस्तृप्तिमवाप्नुवन्ना भुञ्जीत मन्दाग्निरपि प्रभूतम् ॥” इति वैद्यकचक्रपाणिसंग्रहेऽग्निमान्द्याधिकारे ॥ मन्दः अग्निर्यस्येति । अल्पाग्निविशिष्टे, त्रि । यथा, मार्कण्डेये । १५ । १३९ । “सोऽजीर्णव्याधिदुःखार्त्तो मन्दाग्निः संप्र- जायते । परनिन्दा कृतघ्नत्वं परमर्म्मावघट्टनम् ॥”)



Correction: