संस्कृत-शब्दकोशः

मन्दायुस् मन्दास्य

मन्दार

वाचस्पत्यम्

मन्दार ||‍ पु० मदि० आरक् । १ स्वर्गस्थे देववृक्षभेदे २ पारिभद्रवृक्षे च अमरः ३ हस्ते ४ धूर्त्ते ५ तीर्थगद ६ अर्कवृक्षे च मेदि० ।


शब्दकल्पद्रुमः

मन्दारः || पुं, (मन्द्यते स्तूयते प्रशस्यते वेति । मदि + “अङ्गिमदिमन्दिभ्य आरन् ।” उणा० ३ । १३४ । इति आरन् ।)
स्वर्गीयपञ्चवृक्षान्त- र्गतदेवतरुविशेषः । यथा, अमरकोषे । ११ । ५३ । “पञ्चैते देवतरवो मन्दारः पारिजातकः । सन्तानः कल्पवृक्षश्च पुंसि वा हरिचन्दनम् ॥” (यथा, अभिज्ञानशकुन्तले ७ अङ्के । “अन्तर्गतप्रार्थनमन्तिकस्थं जयन्तमुद्वीक्ष्य कृतस्मितेन । आमृष्टवक्षोहरिचन्दनाङ्का मन्दार-माला हरिणा पिनद्धा ॥”)
पारिभद्रवृक्षः । पालिता मादार इति भाषा । यथा, अमरकोषे । २ । ४ । २६ । “पारिभद्रे निम्बतरुर्म्मन्दारः पारिजातकः ॥” अर्कवृक्षः । आकन्द इति भाषा । यथा, —
“अर्काह्ववसुकास्फोतगणरूपविकीरणाः । मन्दारश्चार्कपर्णेऽत्र शुक्लेऽलर्कप्रतापसौ ॥” इत्यमरः । २ । ४ । ८१ ॥ हस्तः । धूर्त्तः । इति मेदिनी । रे, १९७ ॥ तीर्थविशेषः । यथा, — वराह उवाच । “शृणु सुन्दरि ! यत्नेन यन्मां त्वं परिपृच्छसि । कथयिष्यामि ते गुह्यां मन्दारस्य महाक्रियाम् ॥ क्रीडमानोऽस्म्यहं तत्र दृष्ट्वा मन्दारपुष्पितम् । मन्दारपुष्पमादाय मनोज्ञं न्यस्य वै हृदि ॥ तत्रैकादशकुण्डानि निःसृतानि गिरौ धरे । बिन्ध्ये च मत्प्रभावेन मन्दारश्च महाद्रुमः ॥ स्थितोऽहं तत्र सुगगे ! भक्तानुग्रहकाम्यया । दर्शनीयतमं स्थानं मनोज्ञं तु शिलातलम् ॥ यत्र तिष्ठाम्यहं देवि ! मन्दारद्रुममास्थितः । विस्मयं शृणु सुश्रोणि ! मन्दारेऽस्मिन् द्रुमे तथा ॥ द्बादश्याञ्च चतुर्द्दश्यां स पुष्प्यति द्रुमोत्तमः । तत्र मध्याह्रवेलायां वीक्ष्यमाणो जनैस्ततः । ततोऽन्यदिनमासाद्य दृश्यते न कदाचन ॥ तस्मिन् मन्दारकुण्डे तु एकभक्तोषितो नरः । स्नानं करोति शुद्धात्मा स गच्छेत् परमां गतिम् ॥ अथ प्राणान् प्रमुच्येत कुण्डे मन्दारसंस्थिते । तपः कृत्वा वरारोहे ! मम लोकाय गच्छति ॥ तस्य चोत्तरपार्श्वे तु प्रापणं नाम तं गिरिम् । तिस्रोधाराः पतन्त्यत्र दक्षिणां दिशमास्थिताः ॥ स्नानकुण्डमिति ख्यातं तस्मिन् क्षेत्रे परं मम । दक्षिणे पतते धारा श्रवते चोत्तरामुखम् ॥ तत्र स्नातो वरारोहे ! एकरात्रोषितो नरः । मोदते दक्षिणे शृङ्गे तस्मिन् मेरौ शिलोच्चये ॥ तत्राथ मुञ्चते प्राणान् मम कर्म्मपरायणः । सर्व्वं सङ्गं परित्यज्य मम लोकं प्रपद्यते ॥ नाकपृष्ठं समासाद्य मोदते दैवतैः सह । तथात्र मुञ्चते प्राणान् कृतकृत्यः सुनिश्चितः । तारयित्वा कुलं सर्व्वं मम लोकं प्रपद्यते ॥ तस्य दक्षिणपूर्व्वेण समश्रोतो वराङ्गने ! । पतते बिन्ध्यशृङ्गेषु अगाधश्च महाह्रदः ॥ तत्र स्रानन्तु यः कुर्य्यादेकभक्तोषितो नरः । मोदते पूर्ब्बपार्श्वे तु तस्मिन्मेरौ शिलोच्चये ॥ अथात्र मुञ्चते प्राणान् मम चित्तव्यवस्थितः । छित्त्वा यै सर्व्वसंसारं मम लोकाय गच्छति ॥ मन्दारस्य तु पूर्ब्बेण गुह्यं कोटरसंस्थितम् । यत्र धारा पतत्येका मुषलेन समन्विता ॥ तत्र स्नानं प्रकुर्व्वीत पञ्चभक्तोषितो नरः । मोदते पूर्ब्बपार्श्वे तु तस्मिन् मेरौ शिलोच्चये ॥ तत्राथ मुञ्चते प्राणान् कृत्वा कर्म्म सुदुष्करम् । मेरुशृङ्गं समुत्सृज्य मम लोकञ्च गच्छति ॥ तस्य दक्षिणपार्श्वे तु गुह्यं बिन्ध्यविनिःसृतम् । पञ्च धाराः पतन्त्यत्र मुषलेन समन्विताः ॥ तत्र स्नानन्तु कुर्व्वीत अहोरात्रोषितो नरः । मोदते दक्षिणे शृङ्गे महामेरौ शिलोच्चये ॥ अथात्र मुञ्चते प्राणान् कृत्वा कर्म्म सुदुष्करम् । मेरुशृङ्गं परित्यज्य मम लोकं प्रपद्यते ॥ दक्षिणे पश्चिमे भागे मन्दारस्य यशस्विनि ! । तत्र धारा पतत्येका आदित्यसमतेजसा ॥ तत्र स्नानन्तु कुर्व्वीत अहोरात्रोषितो नरः । मोदते पश्चिमे भागे ध्रुवो यत्र प्रवर्त्तते ॥ अथात्र मुञ्चते प्राणान् मम कर्म्मव्यवस्थितः । सर्व्वपापविनिर्मुक्तो मम लोके च मादते ॥ तस्य पश्चिमपार्श्वे तु गुह्यं देवसमन्वितम् । चक्रावर्त्त इति ख्यातमगाधश्च महाह्रदः ॥ स्नानं करोति यस्तत्र पञ्चभक्तोषितो नरः । मोदते सर्व्वशृङ्गेषु स्वच्छन्दगमनालयः ॥ अथ वै मुञ्चते प्राणान् चक्रावर्त्ते महायशाः । शृङ्गान् सर्व्वान् परित्यज्य मोदते मम सन्निधौ ॥ देशं वायव्यमाश्रित्य तस्मिन् बिन्ध्यशिलोच्चये । तिस्रो धाराः पतन्त्यत्र मुषलाकृतयः शुभाः । तत्र स्नानं प्रकुर्व्वीत मम चित्तव्यवस्थितः । मोदते सर्व्वशृङ्गेषु एकचित्तसमाश्रितः । तथात्र मुञ्चते प्राणांश्चास्मिन् गुह्ये यशस्विनि ! । सर्व्वसङ्गं षरित्यज्य मम लोकाय गच्छति ॥ तस्य त्रिक्रोशमात्रेण दक्षिर्णा दिशमाश्रितः । गुह्यं गम्भीरकं नाम अगाधञ्च महाह्रदम् ॥ तत्र स्नानन्तु कुर्व्वीत अष्टभक्तोषितो नरः । मोदते सर्व्वद्बीपेषु सर्व्वत्र गमनालयः ॥ अथैवं मुञ्चते प्राणान् मम कर्म्मव्यवस्थितः । सर्व्वद्वीपान् परित्यज्य मम लोकं प्रपद्यते ॥ तस्य पश्चिमपार्श्वे तु गुह्यं मे परमं महत् । सप्त धाराः पतन्त्यत्र अगाधश्च महाह्रदः ॥ तत्र स्नानन्तु कुर्व्वीत अहोरात्रोषितो नरः । मोदते शक्रलोकन्तु स्वच्छन्दगमनालयः ॥ अथ वै मुञ्चते प्राणान् स्वकर्म्मपरिनिष्ठितः । सर्व्वसङ्गं परित्यन्य मम लोकं प्रपद्यते ॥ मण्डलं तस्य क्षेत्रस्य कथ्यमानं मया शृणु । स्यमन्तपञ्चकञ्चैव मन्दारस्य गिरौ मम ॥ तत्र तिष्ठामि सुश्रोणि ! बिन्ध्यस्य गिरिमूर्द्धनि । मन्दारे परमं गुह्यं तस्मिन् गुह्यशिलोच्चये ॥ दक्षिणे संस्थितं चक्रं वामे स्थाने च वै गदा । लाङ्गलं मुषलञ्चैव शङ्खं तिष्ठति चाग्रतः ॥ य एतत् शृणुयान्नित्यं गुह्यं मन्दारसंहितम् । तव चैव प्रियार्थाय मम भक्तसुखावहम् ॥ एतन्न जानते कश्चिन्मम मायाविमोहितः । मुच्य भागवतान् शुद्धान् ये च वाराहसंश्रि- तान् ॥” इत्यादि वाराहपुराणे भगवच्छास्त्रे मन्दार- गुह्यवर्णनं नामाध्यायः ॥



Correction: