वाचस्पत्यम्
मन्यु || पु० मन—युच् न अनादेशः । १ शोके २ दैन्ये ३ क्रतौ ४ क्रोधे च अमरः ५ अहङ्कारे च शब्दर० ।
शब्दकल्पद्रुमः
मन्युः || पुं, (मन्यते ज्ञायतेऽसौ । मन + “यजिमनि- शुन्धिदसिजनिभ्यो युच् ।” उणा० ३ । २० । इति युच् ।)
शोकः । (यथा, भट्टिकाव्ये । ६ । ३० । “मन्युर्म्मन्ये ममास्तम्भीद्बिषादोऽस्तभदुद्य- तिम् ॥”)
दैन्यम् । क्रतुः । (यथा, राजतरङ्गिण्याम् । १ । १७४ । “आविर्बभूवाभिमन्युः शतमन्युरिवापरः ॥”)
क्रोधः । इत्यमरः । ३ । ३ । १५३ ॥ (यथा, महाभारते । १ । ७९ । ५ । “यः सन्धारयते मन्युं योऽतिवादांस्तितिक्षते । यश्च तप्तो न तपति दृढं सोऽर्थस्य भाजनम् ॥”)
अहङ्कारः । इति शब्दरत्नावली ॥ (क्रोधाभि- मानिदेवः । यथा, ऋग्वेदे । १० । ८३ । १ । “यस्ते मन्यो ! विधद्वज्र सायक सह ओजः पुष्यति विश्वमानुषक् ॥” वितथपुत्त्रः । यथा, भागवते । ९ । २१ । १ । “वितथस्य सुतान् मन्योर्बृहत्क्षत्त्रो जय- स्ततः ॥” रुद्रदेवः । यथा, भागवते । ४ । ५ । ५ । “आज्ञप्त एव कुपितेन मन्युना स देवदेवं परिचक्रमे विभुम् ॥”)