वाचस्पत्यम्
मम || अव्य० भा—बा० डम । षष्ठ्यर्थवृत्तेः अस्मच्छस्यार्थे तेन ममत्व- मिति ममतेति च सिध्यति ।
शब्दकल्पद्रुमः
मम || व्य, मदीयम् । आमार इति भाषा । यथा, “ममत्वं मम राज्यस्य राज्याङ्गेष्वखिलेष्वपि । जानतोऽपि यथाज्ञस्य किमेतन्मुनिसत्तम ! ॥” इति मार्कण्डेयपुराणे देवीमाहात्म्यम् ॥ “तेषु अमदीयत्वं जानतोऽपि मम यथाज्ञस्य अज्ञस्येव राज्यादिषु ममत्वमेतत् कि किं निब- न्धनमित्यर्थः ।” इति तट्टीकायां नागोजीभट्टः ॥ अस्याव्ययत्वेन स्पष्टप्रमाणं ममत्वशब्दे द्रष्टव्यम् । अस्मच्छब्दस्य षष्ठ्येकवचनान्तस्येदं रूपं तत्पदं त्रिषु लिङ्गेषु सदृशम् ॥