संस्कृत-शब्दकोशः

ममतायुक्त ममापताल

ममत्व

शब्दकल्पद्रुमः

ममत्वं || क्ली (मम + भावे त्व ।)
मदीयत्वम् । यथा, मार्कण्डेयपुराणे । “दुःखायतनभूतो हि ममत्वालम्बनो गृही ॥” स्नेहः । यथा, —
“सोऽचिन्तत्तदा तत्र ममत्वाकृष्टचेतनः ।” इति देवीमाहात्म्यंम् ॥ “ममत्वेन स्रेहेन आकृष्टा चेतना मतिर्यस्य । ममेति षष्ठ्यन्तरूपमव्ययं तस्य भावः ममत्वम् ॥” इति तट्टीकायां काशीरामः ॥



Correction: