वाचस्पत्यम्
मयूर || पुंस्त्री० मी—ऊरन् । खनामख्याते १ स्वगभेदे स्त्रियां ङीष् । २ मयूरशिखावृक्षे पु० अमरः । इवार्थे कन् ३ अपामार्गे अमरः । ४ तुत्थाञ्जने (तुँते) न० मेदि० ।
शब्दकल्पद्रुमः
मयूरः || पुं, (मयुरिव राति शब्दायते इति । रा + कः । पृषोदरादित्वात् साधुः । यद्वा, मीनाति हन्ति सर्पानिति । मी + “मीनातेरूरन् ।” उणा० १ । ६८ । इति ऊरन् ।)
स्वनामख्यातपक्षि- विशेषः । तत्पर्य्यायः । बर्हिणः २ बर्ही ३ नील- कण्ठः ४ भुजङ्गभुक् ५ शिखाबलः ६ शिखी ७ केकी ८ मेघनादानुलासी ९ । इत्यमरः । २ । ५ । ३० ॥ प्रचलाकी १० चन्द्रकी ११ सितापाङ्गः १२ । इति शब्दरत्नावली ॥ ध्वजी १३ मेघा- नन्दी १४ कलापी १५ शिखण्डी १६ चित्र- पिच्छिकः १७ भुजगभोगी १८ मेघनादानु- लासकः १९ । तस्य पक्षस्य विचित्रताकारणं यथा, —
“प्रविष्टायां हुताशन्तु वेदवत्यां स रावणः । पुष्पकन्तु समारुह्य परिचक्राम मेदिनीम् ॥ ततो मरुत्तं नृपतिं यजन्तं सह दैवतैः । उशीरबीजमासाद्य ददर्श स तु रावणः ॥ संवर्त्तो नाम ब्रह्मर्षिः साक्षाद्भ्राता बृहस्पतेः । याजयामास धर्म्मज्ञः सर्व्वैर्देवगणैर्वृतः ॥ दृष्ट्वा देवास्तु तद्रक्षो वरदानेन दुर्जयम् । तिर्य्यग्योनिं समाविष्टास्तस्य धर्षणभीरवः ॥ इन्द्रो मयूरः संवृत्तो धर्म्मराजस्तु वायसः । कृकलासो धनाध्यक्षो हंसश्च वरुणोऽभवत् ॥” इत्यादि ॥ “हर्षात्तदाब्रवीदिन्द्रो मयूरं नीलबर्हिणम् । प्रीतोऽस्मि तव धर्म्मज्ञ ! भुजगाद्धि न ते भयम् ॥ इदं नेत्रसहस्रन्तु यत्त्वद्वर्हे भविष्यति । वर्षमाणे मयि मुदं प्राप्स्यसे प्रीतिलक्षणम् ॥ एवमिन्द्रो वरं प्रादान्मयूरस्य सुरेश्वरः । नीलाः किल पुरा बर्हा मयूराणां नराधिप ! । सुराधिपाद्वरं प्राप्य गताः सर्व्वे विचित्रताम् ॥” इत्यन्तं वाल्मीकीये रामायणे उत्तरकाण्डे १८ सर्गः ॥ अस्य मांसगुणाः । “मयूरः श्रोत्रनेत्राग्निमेधावर्णस्वरायुषाम् । हितो बल्यो गुरुश्चोष्णो वातघ्नः शुक्रमांसदः ॥ हेमन्तकाले शिशिरे वसन्ते सेव्यं हि मायूरमुशन्ति मांसम् । उष्णो हि बर्ही विषभोजनैश्च वर्षाशरद्ग्रीष्ममुखेष्वपथ्यः ॥” इति राजनिर्घण्टः ॥ एतन्मांसमेरण्डतैलभृष्टं विषतुल्यम् । इति राजवल्लभः ॥ * ॥
मयूरशिखाक्षुपः । तत्पर्य्यायः । खराश्वा २ कारवी ३ दीपः ४ लोचमस्तकः ५ । इत्यमरः । २ । ४ । १११ ॥ अपामार्गः । इति मेदिनी । रे, १९९ ॥ (यथा, सुश्रुते चिकित्- सितस्थाने २३ अः । “पिप्पलीपिप्पलीमूलं चव्यचित्रकमयूरवर्षाभूसिद्धं वा क्षीरं पिबेत् ॥” असुरविंशेषः । यथा, महाभारते । १ । ६७ । ३६ । “मयूर इति विख्यातः श्रीमान् यस्तु महासुरः । स विश्व इति विख्यातो बभूव पृथिवीपतिः ॥” सुमेरोरुत्तरवर्त्ती पर्व्वतविशेषः । यथा, मार्क- ण्डेये । ५५ । १३ । “स्वर्णशृङ्गी शातशृङ्गी पुष्पको मेघपर्व्वतः । विरजाक्षो वराहाद्रिर्मयूरो दारुधिस्तथा ॥” कविविशेषः । स च मयूरभट्ट इति लोके प्रसिद्धः । अयं खलु बाणभट्टस्य श्वशुरः उज्जयिन्यां वृद्धभोजमहीपतेः सभायामा- सीदिति मानतुङ्गाचार्य्यप्रणीतभक्तामराख्य- स्तोत्रटीकाप्रारम्भे मेरुतुङ्गप्रणीतप्रबन्धचिन्ता- मणौ च समुपलभ्यते । प्रबन्धचिन्तामणौ बाणभट्टो मयूरस्य भगिनीपतिरासीदित्युक्त- मस्ति । अथ च । “अहो प्रभावो वाग्देव्या यन्मातङ्गदिवाकरः । श्रीहर्षस्याभवत् सभ्यः समो बाणमयूरयोः ॥” इति शार्ङ्गपद्धत्यादिप्रसिद्धराजशेखरपद्येनापि बाणमयूरयोः समकालत्वं प्रतीयते । अयं हि कुष्ठरोगग्रस्तः सूर्य्यमारिरात्सुः सूर्य्य- शतकं नाम स्तोत्रग्रन्थं प्रणीय ततः सम्यक् निष्कृतिमवाप । सूर्य्यशतकस्यान्तिमः श्लोको यथा, —
“श्लोका लोकस्य भूत्यै शतमिति रचिताः श्रीमयूरेण भक्त्या युक्तश्चैतान् पठेद् यः सकृदपि पुरुषः सर्व्वपापै- र्विमुक्तः । आरोग्यं सत्कवित्वं मतिमतुलबलं कान्तिमायुः- प्रकर्षं विद्यामैश्वर्य्यमर्थं सुखमपि लभते सोऽत्र सूर्य्य- प्रसादात् ॥”)