संस्कृत-शब्दकोशः

मरार मरालक

मराल

वाचस्पत्यम्

मराल ||‍ पु० मृ—आलच् । १ राजहंसे जटा० “तत्रामरालय- मरालमरालकेशी” नैषधम् । २ कज्जले ३ कारण्डवे ४ अश्वे ५ मेघे ६ दाडिमीवने च सारस्वतः । ७ चिक्वणे त्रि० त्रिका० ।


शब्दकल्पद्रुमः

मरालः || पुं, (मृ + आलच् ।)
राजहंसः । इति जटाधरः ॥ (यथा, नैषधे । ६ । ७२ । “भैमीसमीपे स निरीक्ष्य यत्र ताम्बूलजाम्बूनदहंसलक्ष्मीम् । कृतप्रियादूत्यमहोपकार- मरालमोहद्रढिमानमूहे ॥”)
कज्जलम् । कारण्डवः । तुरङ्गमः । वारिवाहः । दाडिमीविपिनम् । खलः । इति सारस्वतः ॥ मसृणे, त्रि । इति त्रिकाण्डशेषः ॥



Correction: