वाचस्पत्यम्
मरीचि || पु० मृ ईचि । सप्तर्षिमध्ये ब्रह्मणो मानसे ज्येष्ठे पुत्रे १ मुनिभेदे २ कृपणे च हेमच० । ३ किरणे पुंस्त्री० अमरः ।
शब्दकल्पद्रुमः
मरीचिः || पुं, (म्रियते पापराशिर्यस्मिन्निति । मृ + “मृकणिभ्यामीचिः ।” उणा० ४ । ७० । इति ईचिः । तपःप्रभावादस्य तथात्वम् ।)
मुनिविशेषः । स तु ब्रह्मणो ज्येष्ठमानसपुत्त्रः । अस्य भार्य्या कर्द्दममुनिकन्या कला, पुत्त्रः कश्यपः पूर्णिमासश्च । इति श्रीभागवतम् ॥ (अस्य भार्य्या सम्भूतिरिति नाम्नापि ख्याता । यथा, मार्कण्डेये । ५२ । १९ । “पत्नी मरीचेः सम्भूतिः पौर्णमासमसूयत ॥”)
कृपणः । इति हेमचन्द्रः ॥ (दनुपुत्त्रः । यथा, हरिवंशे । ३ । ८२ । “मरीचिर्मघवांश्चैव इरा शङ्कुशिरा वृकः ॥” मरुद्गणानामन्यतमः । यथा, श्रीभगवद्गीता- याम् । १० । २१ । “मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी ॥” प्रियव्रतवंशीयस्य सम्राजः पुत्त्रः । यथा, श्रीमद्भा- गवते । ५ । १५ । १४ — १५ । “चित्ररथा- दूर्णायां सम्राडजनिष्ट । ततः उत्कलायां मरीचिर्मरीचेर्बिन्दुमत्यां बिन्दुमानुदपद्यत । तस्मात् सरघायां मधुनामाभवत् ॥”)
शब्दकल्पद्रुमः
मरीचिः || पुं, स्त्री, (म्रियन्ते नश्यन्ति क्षुद्रजन्तव- स्तमांसि वानेन । मृ + ईचिः ।)
किरणः । इत्य- मरः । १ । ४ । ३३ ॥ (यथा, रघौ । १३ । ४ । “गर्भं दधत्यर्कमरीचयोऽस्माद् विवृद्धिमत्राश्नुवते वसूनि ॥” यथा च । “मरीचीनसतो मेघान् मेघान् वाप्यसतोऽम्बरे । विद्युतो वा विना मेघैः पश्यन् मरणमृच्छति ॥” इति चरके इन्द्रियस्थाने चतुर्थेऽध्याये ॥)
षट्त्र्यसरेणुपरिमाणम् । इति वैद्यकपरिभाषा ॥ (स्त्री, म्रियन्ते इव देवा यद्दर्शनादिति । मृ + ईचिः । अप्सरोविशेषः । यथा, महा- भारते । १ । १२३ । ५९ । “मरीचिः शुचिका चैव विद्युद्वर्णा तिलोत्तमा । अम्बिका लक्षणा क्षेमा देवी रम्भा मनोरमा ॥” म्रियते वारिभ्रमेण जीवा यस्याः । मृ + अपा- दाने ईचिः । मरीचिका । यथा, कथासरित्- सागरे । ५७ । ९१ । “वेश्याप्रेमणि सद्भावो यदस्मिन् बुध्यते त्वया । सत्यंभवति किं जातु जलं मरुमरीचिषु ॥”)