संस्कृत-शब्दकोशः

मरीचि मरु

मरीचिका

वाचस्पत्यम्

मरीचिका ||‍ स्त्री मरीचौ सूर्य्यकिरणे कमिव यत्र भ्रान्तौ । सूर्य्यकिरणे जलभ्रान्तौ, मृगतृष्णायाम् अमरः ।


शब्दकल्पद्रुमः

मरीचिका || स्त्री (मरीचिरेव । स्वार्थे कन् । टाप् ।)
मृगतृष्णा । इत्यमरः । १ । ४ । ३५ ॥ (यथा, प्रबोधचन्द्रोदये । १ । १ । “मध्याह्रार्कमरीचिकास्विव पयःपूरो यद- ज्ञानतः ॥”)
“मरीचिरिव मरीचिका स्वार्थे संघे इत्यादिना इवार्थे कः । ग्रीष्मे मरुदेशसिकतादावर्ककराः प्रतिफलिताः दूरस्थानां जलत्वेनाभान्ति तद्वा- चिका मृगतृष्णेति टीकाकारः । उत्कटरवि- रश्मिजन्यक्षितिवास्पजालं मरीचिका । दूरशून्ये यन्मयूखैर्जलमिव दृश्यते इत्यपरे ।” इति भरतः ॥



Correction: