वाचस्पत्यम्
मरु || पु० मृ उ । १ पर्वते २ निर्जलदेशे च अमरः ३ कुरुवकवृक्षे भावप्र० ४ देशभेदे च (माडयार) हेमच० ।
शब्दकल्पद्रुमः
मरुः || पुं, (म्रियतेऽस्मिन्निति । मृ + “भृमृ- शीति ।” उणा० १ । ७ । इति उः ।)
निर्जल- देशः । (यथा, महाभारते । १३ । १५४ । २७ । “अदृश्या गच्छ भीरु ! त्वं सरस्वति ! मरून् प्रति ॥”)
पर्व्वतः । इत्यमरः । ३ । ३ । १६२ ॥ यथा महाभारते । ५ । ६४ । १८ । “तत्रापश्याम वै सर्व्वे मधु पीतममाक्षिकम् । मरुप्रपाते विषमे निविष्टं कुम्भसम्मितम् ॥” दशेरकदेशः । तत्पर्य्यायः । धन्वा २ । इत्यमरः । २ । १ । ५ ॥ यथा, हेमचन्द्रः । “शाल्वास्तु कारकुक्षीया मरवस्तु दशेरकाः ॥” मरुवकवृक्षः । इति भावप्रकाशः ॥ (निमि- वंशीयहर्य्यश्वपुत्त्रः । यथा, श्रीमद्भागवते । ९ । १३ । १५ । “तस्माद्वृहद्रथस्तस्य महावीर्य्यः सुवृत्पिता । सुधृतेर्धृष्टकेतुर्वै हर्य्यश्वोऽथ मरुस्ततः ॥”)
सूर्य्यवंशीषभाविराजविशेषः । तस्य विवरणं यथा, —
“रामात् कुशोऽभूदतिथिस्ततोऽभून्निषधान्नभः । तस्मादभूत् पुण्डरीकः क्षेमधन्वाभवत्ततः ॥ देवानीकस्ततो हीनः पारिपात्रोऽथ हीनतः । बलाहकस्ततोऽर्कश्च रजनाभस्ततोऽभवत् ॥ खगणाद्विधृतस्तस्माद्धिरण्यो नाभसंज्ञितः । ततः पुष्पार्णवस्तस्मान्मुद्गलोऽथाग्निवर्णकः ॥ तस्मात् शीघ्रोऽभवत् पुत्त्रः पिता मेऽतुलविक्रमः । तस्मात् मरुं मां केऽपीह बुधञ्चापि सुमित्रकम् ॥ कलापग्राममासाद्य विद्धि सत्तपसि स्थितम् । तवावतारं विज्ञाय व्यासात् सत्यवतीसुतात् ॥ प्रतीक्ष्य कालं लक्षाब्दं कालप्राप्तस्तवान्तिकम् । कल्किरुवाच । मरो ! त्वामभिषेक्ष्यामि निजायोध्यापुरेऽधुना । हत्वा म्लेच्छानधर्म्मिष्ठान् प्रजाभूतविहिंसकान् ॥ विशाखयूपभूपालस्तनयां विनयान्विताम् । बिवाहे रुचिरापाङ्गीं सुन्दरीं त्वां प्रदा- स्यति ॥” इति कल्किपुराणे १८ अध्यायः ॥ (वसूनामन्यतमः । यथा, हरिवंशे । १९६ । ४७ । “वासवानुगता देवी जनयामास वै सुतान् । मरुं वै प्रथमं देवं द्वितीयं ध्रुवमव्ययम् ॥”)