संस्कृत-शब्दकोशः

मर्त्य मर्दल

मर्दन

वाचस्पत्यम्

मर्द्दन ||‍ न० मृद—ल्युट् । १ गात्रपादादिसंवाहने अमरः २ चूर्णने च ।


शब्दकल्पद्रुमः

मर्द्दनं || क्ली (मृद् + भावे ल्युट् ।)
अङ्गमर्द्दनम् । गाटेपा इति भाषा ॥ तत्पर्य्यायः । संवाह- नम् २ । इत्यमरः । ३ । २ । २२ ॥ सम्बलम् ३ । इति शब्दरत्नावली ॥ (यथा, “यत् पुनर्बहिःस्पर्शना- श्रित्याभ्यङ्गस्वेदप्रदेहपरिषेकोन्मर्द्दनाद्यैरामयान् प्रमार्ष्टि तद्वहिः परिमार्ज्जनम् ॥” इति चरके सूत्रस्थाने ११ अध्यायः ॥)
अस्य गुणाः । भ्रम- हरत्वम् । निद्राशुक्रसुस्वप्रदत्वम् । मांसरक्त- त्वक्प्रसन्नकारित्वम् । वायुकफनाशित्वञ्च । इति राजवल्लभः ॥ चूर्णनम् । इति मृदधात्वर्थदर्श- नात् ॥ (कदनम् । यथा, भागवते । ३ । ४ । २ । “तेषां मैरेयदोषेण विषमीकृतचेतसाम् । निम्लोचति रवावासीत् वेणूनामिव मर्द्दनम् ॥” मृद् + ल्युः । मर्द्दनकारके, त्रि । यथा, महा- भारते । १३ । १४ । ३७२ । “द्रक्ष्ये क्षितिजसङ्घानां मर्द्दनं त्रिदशेश्वरम् ॥”)



Correction: