संस्कृत-शब्दकोशः

मर्मज्ञ मर्मर

मर्मन्

वाचस्पत्यम्

मर्मन् ||‍ न० मृ—मनिन् । १ जीवनस्थाने राजनि० । २ सन्धिस्थाने ३ तात्पर्व्ये च “अपि धर्मागमनर्मपारगैरि” ति नैषधम् । “सन्निपातः सिरास्नायुसन्धिमांसास्थिसम्भवः । मर्माणि तेषु तिष्ठन्ति प्राणाः खलु विशेषतः” भावप्र० ।


शब्दकल्पद्रुमः

मर्म्म || [न्] क्ली, (मृ + “सर्व्वधातुभ्यो मनिन् ।” उणा ० ४ । १४४ । इति मनिन् ।)
स्वरूपम् । तत्त्वम् । यथा, नैषधे । २ । ९ । “मृगया न विगीयते नृपै- रपि धर्म्मागममर्म्मपारगैः । स्मरसुन्दर ! मां यदत्यज स्तव धर्म्मः सदयो दयोज्ज्वलः ॥” सन्धिस्थानम् । इति लिङ्गादिसंग्रहे अमर- भरतौ ॥ जीवस्थानम् । इति राजनिर्घण्टः ॥ * ॥
अथ मर्म्माणि । “सन्निपातः शिरास्नायुसन्धिमांसास्थिसम्भवः । मर्म्माणि तेषु तिष्ठन्ति प्राणाः खलु विशेषतः ॥ सप्तोत्तरं शतं सन्ति देहे मर्म्माणि देहिनाम् । तान्येकादश मांसे स्युरष्टावस्थिषु सन्ति हि ॥ सन्धीनां विंशतिस्तानि स्नायूनां सप्तविंशतिः । चत्वारिंशत्तथैकञ्च शिरामर्म्माणि तत्र तु ॥ द्वाविंशतिः सक्थियुगे तावन्त्येव भुजद्वये । द्बादशोरसि कुक्षौ च पृष्ठदेशे चतुर्द्दश ॥ ग्रीवाया ऊर्द्ध्वभागे तु सप्तत्रिंशन्मतानि हि ॥ मर्म्माणि तानि सन्ति पञ्चधा भवन्ति । तान्याह । सद्यःप्राणहराणि स्युर्मर्म्माण्येकोनविंशतिः । मर्म्मदेशास्त्रयस्त्रिंशत् स्युः कालान्तरमारकाः ॥ चत्वारिंशच्च चत्वारि वैकल्यं जनयन्ति हि । मर्म्माष्टकं रुजाकारि विशल्यघ्नं त्रिकं मतम् ॥ शृङ्गाटकान्यधिपतिः शङ्खौ कण्ठसिरागुदम् । हृदयं वस्तिनाभ्यौ च सद्यो घ्नन्ति हतानि चेत् ॥ शृङ्गाटकानि घ्राणश्रोत्राक्षिजिह्वासन्तर्पकाणां शिरामुखानां शिरसो मध्ये संयोगस्थानं तानि चत्वारि शिरामर्म्माणि चतुरङ्गुलप्रमाणानि हतानि सन्ति सद्योमारकाणि । अधिपतिः । मस्तकस्याभ्यन्तरे सन्धिसिरयोः सन्निपात उपरिष्टाद्रोमावर्त्तः स एकः सन्धिमर्मेदं अर्द्धा- ङ्गुलप्रमाणं सद्योमारकम् । शङ्खौ भ्रुवोरन्तोपरि कर्णललाटमध्ये ते द्वे अस्थिमर्म्मणी अर्द्धा- ङ्गुले सद्योमारके । कण्ठशिराः मातृकाः ग्रीवाया उभयपार्श्वयोश्चतस्रश्चतस्रः शिरास्ता अष्टौ शिरामर्म्माणि चतुरङ्गुलानि सद्योमार- काणि । गुदं प्रसिद्धमेकं मांसमर्म्म चतुरङ्गुलं सद्योमारकम् । हृदयं स्तनयोर्म्मध्यमामाशय- द्वारमेकं शिरामर्म्म चतुरङ्गुलं सद्योमारकम् । वस्तिः नाभिपृष्ठकटीमुष्कगुदवङ्क्षणसेफसां मध्ये वस्तिस्तनूत्वक् एकद्वारो ह्यधोमुखः स्नायुः मर्म्मेदं चतुरङ्गुलं सद्योमारकम् । नाभिः प्रसिद्धा । सिरामर्म्मेदं चतुरङ्गुलं सद्योमारकम् ॥ वक्षोमर्म्माणि सीमन्तास्तलक्षिप्रेन्द्रवस्तयः । बृहत्यौ पार्श्वजौ सन्धी कटीकतरुणे च ये । नितम्बाविति चैतानि कालान्तरहराणि तु ॥ वक्षोमर्म्माणि स्तनमूलस्तनरोहितापलापाप- स्तम्बाः स्तनमूले स्तनयोरघस्ताद्द्व्यङ्गुलं यावत् द्वे शिरामर्म्मणी द्व्यङ्गुले कफपूर्णकोष्ठतया काला- न्तरमारके । स्तनरोहिते स्तनयोरुपरि द्व्यङ्गुलं यावत् द्वे मांसमर्म्मणी रक्तपूरितकोष्ठतया कालान्तरमारके । अपलापौ अंशकूटयोरध- स्तात् पार्श्वयोरुपरि द्वौ शिरामर्म्मणी अर्द्धाङ्गुले रक्तेन पूयताङ्गते न कालान्तरमारके । अप- स्तम्बौ उरस उभयतो नाड्यौ वातवहे शिरा- मर्म्मणी अर्द्धाङ्गुले वातपूर्णकोष्ठतया कासश्वा- साभ्याञ्च कालान्तरमारके । सीमन्ताः शिरसि पञ्च सन्धयः सन्धिमर्म्माणि चतुरङ्गुलानि उन्माद- भयचित्तविनाशैः कालान्तरमारकानि । तलानि मध्याङ्गुलिमनुक्रम्य हस्तभध्यं तलं एवमपरस्य हस्तस्य पादयोश्च चत्वारि तलानि मांसमर्म्मा- एयर्द्धाङ्गुलानि रुजाभिः कालान्तरमारकाणि । क्षिप्राणि अङ्गुष्ठाङ्गुल्योर्म्मध्यं क्षिप्रं तच्च हस्त- योर्द्वे पादयोर्द्वे एवञ्चत्वारि स्नायुमर्म्माण्यर्द्धाङ्गु- लान्याक्षेपकेण कालान्तरमारकाणि । इन्द्र- वस्तयः प्रकोष्ठयोर्म्मध्ये द्वे जङ्घयोर्म्मध्ये द्वे एवं चत्वारि मांसमर्म्माणि द्व्यङ्गुलानि शोणितक्षयेण कालान्तरमारकाणि । बृहत्यौ स्तनमूला- दुभयतः पृष्ठवंशं यावत् शिरामर्म्मणी अर्द्धाङ्गुले शोणितातिप्रवृत्तिनिमित्तैरुपद्रवैः कालान्तर- मारके । पार्श्वसन्धी जघनपार्श्वयोः सन्धी शिरा- मर्म्मणी अर्द्धाङ्गुले शोणितपूर्णकोष्ठतया काला- न्तरमारके । कटीकतरुणे त्रिकसन्निधाने उभ- यतः श्रोणिकाण्डं लक्षीकृत्यास्थिनी अस्थि- मर्म्मणी अर्द्धाङ्गुले शोणितक्षयात् पाण्डुविवर्ण- रूपं कृत्वा कालान्तरमारके । नितम्बौ प्रसिद्धौ । द्वे अस्थिमर्म्मणी अर्द्धाङ्गुले अधःकायशोषेण दौर्ब्बल्येन च कालान्तरमारके ॥ * ॥
लोहिताक्षाणिजानूर्व्वीकूर्च्चाविटपकूर्पराः । कुकुन्दरे कक्षधरे विधुरे सकृकाटिके ॥ अंसांसफलकापाङ्गा नीले मन्ये फणे तथा । वैकल्यकारकाण्याहुरावर्त्तौ द्वौ तथैव च ॥ लोहिताक्षाणि ऊर्व्व्योरूर्द्ध्वमधोवङ्क्षणसन्धेर्लोहि- ताक्षं तच्च द्वे बाह्वोर्द्बे ऊर्व्वोरेवं तानि चत्वारि शिरामर्म्माण्यर्द्धाङ्गुलानि वैकल्यकारकाणि तत्र शोणितक्षयेण पक्षाघातः सक्थिसादो वा । आणयः जानुन ऊर्द्धमुभयोः पार्श्वयो- र्द्व्यङ्गुला एकस्मिन् जानुनि द्वे अपरस्मिन् द्वे एवं चतस्रः स्नायुमर्म्माण्यर्द्धाङ्गुला वैकल्यकर्य्यः तत्र शोथाभिवृद्धिः सक्थिस्तम्भश्च । जानुनी जङ्घोर्व्व्योः सन्धी सन्धिमर्म्मणी द्व्यङ्गुले वैकल्य- करे । तत्र खञ्जता । ऊर्व्व्योः द्वे ऊर्व्वोर्म्मध्ये द्वे प्रगण्डयोर्म्मध्ये एवं चतस्रः सिरामर्म्माण्येका- ङ्गुला वैकल्यकर्य्यः तत्र शोणितक्षयात् सक्थि- शोषः । कूर्च्चाः पादयोरङ्गुष्ठाङ्गुल्योर्म्मध्ये तयो- रूर्द्ध्वमधश्च एवं चत्वारः । स्नायुमर्म्माणि वैकल्य- कराणि तत्र पादयोर्भ्रमणवेपने भवतः । विटपे द्वे वङ्क्षणवृषणयोर्म्मध्ये स्नायुमर्म्मणी एकाङ्गुले वैकल्यकरे तत्र षाण्ड्यमल्पशुक्रता वा । कूर्परौ कफोणी तौ द्वौ सन्धिमर्म्मणी द्व्यङ्गुलौ वैकल्य- करौ तत्र बाहुमध्ये सङ्कोचः । कुकुन्दरे नितम्बकूपके द्वे सन्धिमर्म्मणी अर्द्धाङ्गुले वैकल्यकरे तत्र स्पर्शाज्ञानमधःकाये चेष्टोप- घातश्च । कक्षधरे वक्षःकक्षयोर्म्मध्ये द्वे स्नायु- मर्म्मणी एकाङ्गुले वैकल्यकरे तत्र पक्षाघातः । विधुरे कर्णपृष्ठतोऽधःसंश्रिते किञ्चिन्निम्नाकारे द्वे स्नायुमर्म्मणी अर्द्दाङ्गुले वैकल्यकरे तत्र वाधिर्य्यम् । कृकाटिके शिरोग्रीवयोरुभयतः सन्धी द्वे सन्धिमर्म्मणी अर्द्धाङ्गुले वैकल्यकरे तत्र शिरःकम्पः । अंसौ स्कन्धौ स्नायुमर्म्मणी अर्द्धा- ङ्गुलौ वैकल्यकरौ तत्र बाहुस्तम्भः । अंस- फलके पृष्ठोपरि पृष्ठवंशमुभयतस्त्रिकसम्बन्धे ग्रीवाया अंसद्बयस्य च संयोगो यत्र तत्त्रिकं अस्थिमर्म्मणी अर्द्धाङ्गुले वैकल्यकरे तत्र बाह्वोः शून्यता शोषश्च । अपाङ्गौ नेत्रयोरन्तौ सिरा- मर्म्मणी अर्द्धाङ्गुलौ वैकल्यकरौ तत्रान्ध्यं दृष्ट्युप- घातो वा । नीले मन्ये च कण्ठनाडीमुभयतश्च- तस्रो धमन्यो द्वे नीले द्वे मन्ये तत्र एका नीला एका मन्या एकस्मिन् पार्श्वे । अन्या मन्या अन्या नीला अपरस्मिन् पार्श्वे । द्वे द्वे शिरामर्म्मणी द्व्यङ्गुले द्व्यङ्गुले वैकल्यकरे तत्र मूकता विकृत- स्वरता रसाग्राहिता च । फणे घ्राणमार्गमुभ- यतः अभ्यन्तरे सिरामर्म्मणी अर्द्धाङ्गुले वैकल्य- करे तत्र गन्धाज्ञानम् । आवर्त्तौ भ्रुवोरुपरि निम्नयोः सन्धिमर्म्मणी अर्द्धाङ्गुलौ वैकल्यकरौ तत्राप्यान्ध्यं दृष्ट्युपघातो वा ॥ * ॥
गुल्फौ द्वौ मणिबन्धौ द्वौ तथा कूर्च्चशिरांसि च । रुजाकराणि जानीयादष्टावेतानि बुद्धिमान् ॥ गुल्फौ घुटिके सन्धिमर्म्मणी द्व्यङ्गुलौ रुजा- करौ तत्र रुजा पादस्तम्भः खञ्जता वा । मणि- बन्धौ हस्तप्रकोष्ठसन्धी सन्धिमर्म्मणी द्व्यङ्गुलौ रुजाकरौ तत्र हस्तयोः क्रियाराहित्यम् । कूर्च्चशिरांसि गुल्फसन्धेरध उभयतः एकस्मिन् पादे द्वे द्वे च द्वितीये एवं चत्वारि स्नायु- मर्म्माण्येकाङ्गुलानि रुजाकराणि तत्र रुजा शोफश्च ॥ * ॥
विशल्यघ्नानि । उत्क्षेपौ स्थापनी चैव विशल्यघ्नं त्रिकं मतम् । उत्क्षेपौ शङ्खयोरुपरि केशान् यावत् स्नायु- मर्म्मणी अर्द्धाङ्गुलौ तयोर्विद्धयोः सशल्यो जीवेत् पाकात् पतितशल्यो वा उद्धृतशल्यस्तु म्रियेत अतएव विशल्यमुद्धृतशल्यं हन्तीति विशल्यघ्नं मर्म्म । स्थापनी एका भ्रुवोर्म्मध्ये सिरामर्म्मेदमर्द्धाङ्गुलं विशल्यघ्नम् । सप्तरात्रान्तरे हन्युः सद्यः प्राणहराणि हि । कालान्तरप्राणहरं पक्षे मासे च मारकम् ॥ सद्यःप्राणहरं चान्ते विद्धं कालेन मारयेत् । कालान्तरप्राणहरमन्ते विद्धन्तु दुःखदम् ॥ अन्ते मर्म्मसमीपे । मर्म्माण्यधिष्ठाय हि ये विकारा मूर्च्छन्ति काये विविधा नराणाम् । प्रायेण ते कृच्छ्रतमा भवन्ति वैद्येन यत्नैरपि साध्यमानाः ॥” इति भावप्रकाशः ॥ * ॥
मर्म्मस्पर्शनिषेधो यथा, —
“परक्षेत्रे गां चरन्तीं न चाचक्षीत कस्यचित् । न संवसेत् सूतके च न कं वै मर्म्मणि स्पृशेत् ॥” इति कूर्म्मपुराणे उपविभागे १५ अध्यायः ॥ (“सप्तोत्तरं मर्म्मशतम् । तानि मर्म्माणि पञ्चात्मकानि । तद्यथा मांसमर्म्माणि । सिरा- मर्म्माणि । स्नायुमर्म्माणि । अस्थिमर्म्माणि । सन्धिमर्म्माणि चेति । न खलु मांससिरा- स्नाय्वस्थिसन्धिव्यतिरेकेणान्यानि मर्म्माणि भवन्ति यस्यान्योपलभ्यन्ते ॥ तत्रैकादशमांस- मर्म्माणि । एकचत्वारिंशत्सिरामर्म्माणि । सप्तविंशतिः स्नायुमर्म्माणि । अष्टावस्थि- मर्म्माणि । विंशतिः सन्धिमर्म्माणि । तदेतत् सप्तोत्तरं मर्म्मशतम् ॥” इति सुश्रुते शारीर- स्थाने षष्ठेऽध्याये ॥)



Correction: