वाचस्पत्यम्
मलय || पु० मल—कयन् । दक्षिणस्थे १ पर्वतभेदे हेम० । यत्र चन्दनजन्म तत्पर्वतान्तिकस्थे २ देशभेदे ३ उपवने ४ शैलाङ्गे च मेदि० । ५ नन्दनवने धरणिः । अष्टादशसु द्वीपेषु ६ द्वीपभेदे शब्दमा० ७ ऋषभदेवस्य पुत्रभेदे भाग० ५ । ४ ।
शब्दकल्पद्रुमः
मलयः || पुं, (मलते धरति चन्दनादिकमिति । मल् + “वलिमलितनिभ्यः कयन् ।” उणा० ४ । ९९ । इति कयन् ।)
स्वनामख्यातपर्व्वतः । तत्पर्य्यायः । आषाढः २ दक्षिणाचलः ३ । इति हेमचन्द्रः । ४ । ९५ ॥ चन्दनाद्रिः ४ मल- याचलः ५ । इति शब्दरत्नावली ॥ (स च सप्त- कुलाचलान्तर्गतः । यथा, मार्कण्डेये । ५७ । १०—११ । “महेन्द्रो मलयः सह्यः शुक्तिमानृक्षपर्व्वतः । बिन्ध्यश्च पारिपात्रश्च सप्तैवात्र कुलाचलाः ॥”)
शैलाङ्गम् । देशविशेषः । (यथा, मात्स्ये । ११३ । ४४ । “अङ्गा वङ्गा मद्गुरका अन्तर्गिरिबहिर्गिरी । ततः प्रवङ्गमातङ्गमलयामलवर्त्तिकाः ॥”)
आरामः । इति मेदिनी । ये, ९९ ॥ नन्दन- वनम् । इति धरणिः ॥ अष्टादशोपद्बीपान्त- र्गतद्वीपविशेषः । इति शब्दमाला ॥ ऋषभ- देवस्य शतपुत्त्रान्तर्गतपञ्चमपुत्त्रः । (यथा, श्रीभागवते । ५ । ४ । १० । “तमनु कुशावर्त्त इलावर्त्तो ब्रह्मवर्त्तो मलयः केतुर्भद्रसेन इन्द्र- स्पृक् विदर्भः कीकट इति नव नवतिप्रधानाः ॥” गरुडवंशीयानामन्यतमः । यथा, महाभारते । ५ । १०१ । १४ । “सुस्वरो मधुपर्कश्च हेमवर्णस्तथैव च । मलयो मातरिश्वा च निशाकरदिवाकरौ ॥”)