वाचस्पत्यम्
मल्ल || धृतौ भ्वा० आ० अक० सेट् । भल्लते अमल्लिष्ट ममल्ले ।
वाचस्पत्यम्
मल्ल || पु० मल्ल—अच् । १ बाहुयुद्धकारके नियोद्धरि २ पात्रे ३ वलीयसि ४ मत्स्यभेदे ५ कपोले च मेदि० ६ ब्रात्यक्षत्रि- यात् सर्ववर्णायां जाते जातिभेदे (माल) ७ सङ्कीर्ण- जातिभेदे लेटात् श्रीधरकन्यायां जाते सङ्कीर्णवर्णे (माला) ब्रह्मवै० पु० ६ तन्त्रवाय्यां कुन्दकाराज्जाते सङ्कीर्ण- जातिभेदे च पुंस्त्री० स्त्रियां जातित्वात् ङीष् । ९ देशभेदे स्वार्थे क मल्लक तत्रार्थे । संज्ञायां कन् । दन्ते हेम० ।
शब्दकल्पद्रुमः
मल्ल || ङ धृतौ । इति कविकल्पद्रुमः ॥ (भ्वा०- आत्म०-सक० सेट् ।)
ङ, मल्लते । इति दुर्गा- दासः ॥
शब्दकल्पद्रुमः
मल्लः || पुं, (मल्लते धरति बलमिति । मल्ल् + अच् ।)
बाहुयोधी । इत्यमरभरतौ । माल इति भाषा ॥ (यथा, श्रीमद्भागवते । १० । ४३ । १७ । “मल्लानामशनिर्नृणां नरवरः स्त्रीणां स्मरो मूर्त्तिमान् ॥”)
वर्णसङ्करजातिविशेषः । माला इति भाषा । स च व्रात्यक्षत्त्रियात् सवर्णायां जातः । इति मानवे १० अध्यायः ॥ स च लेटात् तीवर- कन्यायां जातः । इति ब्रह्मवैवर्त्तपुराणम् ॥ तन्त्रवाय्यां कुन्दकाराज्जातः । इति पराशर- पद्धतिः ॥ पात्रम् । कपोलम् । मत्स्यभेदः । इति मेदिनी । ले, ४४ ॥ देशविशेषः । यथा, —
“दशार्णा नवराष्ट्रञ्च मल्लाः शाल्ला युगन्धराः ॥” इति विराटपर्व्वणि १ अध्यायः ॥