संस्कृत-शब्दकोशः

मल्लिकाक्ष मल्लिकाख्या

मल्लिकाख्य

शब्दकल्पद्रुमः

मल्लिकाख्यः || पुं, मलिनचञ्चुचरणयुक्तहंसः । इत्य- मरटीका ॥ ते सिता हंसा मलिनैः किञ्चि- द्धूसरवर्णैरालोहितैश्चञ्चुचरणैर्लक्षिता मल्लि- काख्या मल्लिकनामानः । मल मल्ल ङ धृतौ लान्तः नाम्नीति इकः । मल्लिको हंसभेदे स्यात्तृणशून्यन्तु मल्लिका । इति रुद्रः । शुक्ला- ङ्गत्वान्मल्लिकापुष्पमिव अक्षि येषां ते मल्लि- काक्षा इति स्वामी । इति भरतः ॥ (यथा, उत्तररामचरिते । १ । २६ । “एतस्मिन् मदकलमल्लिकाख्यपक्ष- व्याधूतस्फु रदुरुदण्डपुण्डरीकाः । वाष्पाम्भःपरिपतनोद्गमान्तराले संदृष्टाः कुवलयिनो भुवो विभागाः ॥”)



Correction: