शब्दकल्पद्रुमः
मल्लिकाक्षः || पुं, (मल्लिकापुष्पमिव अक्षिणी यस्येति । “अक्ष्णोऽदर्शनात् ।” ५ । ४ । ७६ । इति अच् ।)
मलिनचञ्चुचरणयुक्तहंसः । इति हेमचन्द्रः । ४ । ३९२ ॥ शुक्लवर्णवेष्टितचक्षु- र्द्वययुक्तहयः । इति हलायुधः ॥ (यथा, हरिवंशे । २४१ । २५ — २६ । “मल्लिकाक्षान् विरूपाक्षान् क्रौञ्चवर्णान् मनो- जवान् । अश्वसैन्यं महाबाहुस्तदप्रतिमपौरुषः । निसूदयामास बली गदया भीमविक्रमः ॥”)