शब्दकल्पद्रुमः
महत्तरः || पुं, स्त्री, (अयमनयोरतिशयेन महान् । महत् + तरप् ।)
शूद्रः । यथा, —
“शूद्रः स्यात् पादजो दासो ग्रामकूटो मह- त्तरः ।” इति त्रिकाण्डशेषः ॥ (यथा, कथासरित्सागरे । ५ । ३४ । “केनायं रचितोऽत्रेति सोऽपृच्छच्च महत्तरान् । ते च न्यवेदयंस्तस्मै कर्त्तारं तिलकस्य माम् ॥”)
अतिशयमहति, त्रि ॥ (यथा, महाभारते । ७ । १९९ । ५९ । “ददर्श भृशदुर्दशं सर्व्वदेवैरभिष्टुतम् । अणीयांसमणुभ्यश्च बृहद्भ्यश्च महत्तरम् ॥”)