शब्दकल्पद्रुमः
महत्त्वं || क्ली (महत् + त्व ।)
महतो भावः । यथा, भाषापरिच्छेदे । “महत्त्वं षड्विधे हेतुरिन्द्रियं करणं मतम् ॥” “महत्त्वं षड्विध इति । द्रव्यप्रत्यक्षे महत्त्वं समवायसम्बन्धेन कारणम् । द्रव्यसमवेतानां गुणकर्म्मसामान्यानां प्रत्यक्षे स्वाश्रयसमवाय- सम्बन्धेन । द्रव्यसमवेतसमवेतानां रूपत्वादीनां प्रत्यक्षे स्वाश्रयसमवेतसमवायसम्बन्धेन कार- णम् ।” इति सिद्धान्तमुक्तावली ॥ (श्रेष्ठत्वम् । यथा, रामायणे । १ । १ । १०१ । “जनश्च शूद्रोऽपि महत्त्वमीयात् ॥” “महत्त्वं श्रैष्ठ्यम् ।” इति तट्टीका ।)