संस्कृत-शब्दकोशः

महर्षभी महल्लक

महर्षि

वाचस्पत्यम्

महर्षि ||‍ पु० कर्म० । परमर्षिशब्दार्थे वेदव्यासादौ त्रिका० । “ऋषिर्हंसागतौ धातुर्विद्यासत्यतपःश्रुतैः । एष सन्नि- चयो यस्माद् ब्राह्मणश्च ततस्त्वृषिः । विवृतिसम- कालन्तु बुद्ध्या व्यक्तमृषिस्त्वयम् । ऋषते परमं यस्मात् परमर्षिस्ततः स्मृतः । गत्यर्थादृषतेर्धातोर्नाम निर्वृति- कारणम् । यस्मादेष स्वयम्भूतस्तस्माच्च ऋषिता मता । तेनेश्वराः स्वयम्भूता ब्रह्मणो मानसाः सुताः । विवर्द्ध- मानैस्तैर्बुद्धा महान् परिगतः परम् । यस्मादृषिः पर- त्वेन महांस्तस्मान् महर्षयः” मत्स्यपु० १२० अ० तन्निरुक्तिः


शब्दकल्पद्रुमः

महर्षिः || पुं, (महांश्चासौ ऋषिश्चेति ।)
व्यासादिः । इति त्रिकाण्डशेषः ॥ अस्य व्युत्पत्त्यादिर्यथा, —
“ऋषिर्हिंसागतो धातुर्व्विद्यासत्यतपःश्रुतैः । एष सन्निचयो यस्माद् ब्राह्मणश्च ततस्त्वृषिः ॥ विवृत्तिसमकालन्तु बुद्ध्या व्यक्तिमृषिस्त्वयम् । ऋषते परमं यस्मात् परमर्षिस्ततः स्मृतः ॥ गत्यर्थादृषतेर्धातोर्नामनिर्वृतिकारणम् । यस्मादेष स्वयम्भूतस्तस्माच्च ऋषिता मता ॥ तेनेश्वराः स्वयम्भूता ब्रह्मणो मानसाः सुताः । विवर्द्धमानैस्तैर्ब्बुद्ध्वा महान् परिगतः परः ॥ यस्मादृषिः परत्वेन महांस्तस्मान्महर्षयः । ईश्वराणां सुतास्तेषां मानसाश्चौरसाश्च वै ॥ ऋषयस्तत्परत्वेन भूतादिऋषयस्ततः । ऋषिपुत्त्रा ऋषीकास्तु मैथुनाद्गर्भसम्भवात् ॥ परत्वेनर्षयस्ते वै भूतादिऋषिकास्ततः । ऋषीकाणां सुता ये वै विज्ञेया ऋषिपुत्त्रकाः ॥ श्रुत्वा ऋषं परत्वेन नाम तस्मात् श्रुतर्षयः । अव्यक्तात्मा महानात्माहङ्कारात्मा तथैव च ॥ भूतात्मा चेन्द्रियात्मा च तेषान्तु ज्ञानमुच्यते । इत्येवमृषिजात्यस्तु पञ्च तान् नामभिः शृणु ॥ भृगुर्म्मरीचिरत्रिश्च अङ्गिराः पुलहः क्रतुः । मनुर्द्दक्षो वशिष्ठश्च पुलस्त्यश्चेति ते दश ॥ ब्रह्मणो मानसा ह्येते उत्पन्नाः स्वयमीश्वराः । परत्वेनर्षयस्तस्माद्भूतास्तस्मान्महर्षयः ॥” इति मात्स्ये १२० अध्यायः ॥



Correction: