संस्कृत-शब्दकोशः

महर्षि महल्लिक

महल्लक

शब्दकल्पद्रुमः

महल्लकः || पुं, (महतः स्त्रीरक्षादिरूपान् विपु- लान् भारानित्यर्थः लाति गृह्णातीति । ला + “आतोऽनुपसर्गे कः ।” ३ । २ । ३ । इति कः । ततः स्वार्थे कन् । यद्वा, महान्तं चरित्र- गुणं लकति आस्वादयतीति । लक् आस्वादने + अच् ।)
अन्तःपुररक्षकः । तत्पर्य्यायः । सौवि- दल्लः २ कञ्चुकी ३ स्थापत्यः ४ सौविदः ५ विदाङ्कः ६ । इति जटाधरः ॥ सौविदल्लकः ७ अन्त- र्वंशिकः ८ । इति शब्दरत्नावली ॥



Correction: