वाचस्पत्यम्
महाकाय || पु० ६ ब० । १ शिवानुचरभेदे नन्दिनि त्रिका० २ हस्तिनि पुंस्त्री० स्त्रियां टाप् । २ विपुलदेहयुते त्रि० । कर्म० । ४ स्थूलदेहे पु० ।
शब्दकल्पद्रुमः
महाकायः || पुं, (महान् कायोऽस्य ।)
नन्दी । स च शिवद्वारपालः । इति त्रिकाण्डशेषः ॥ (यथा, महाभारते । १३ । १५० । २४ । “नन्दीश्वरो महाकायो ग्रामणीर्वृषभध्वजः ॥”)
हस्ती । इति केचित् ॥ (महान् कायः शरीर- मिति ।)
बृहत् शरीरम् ॥ तद्बति, त्रि ॥ (यथा, महाभारते । १ । १५६ । ३२ । “महाजवं महाकायं महामायमरिन्दमम् ॥” स्त्रियां टाप् । कुमारानुचरमातृगणविशेषः । यथा, महाभारते । ९ । ४६ । २४ । “रोहिताक्षी महाकाया हरिपिण्डा च भूमिप ! ॥”)