वाचस्पत्यम्
महाकार्त्तिकी || स्त्री कार्त्तिकीमधिकृत्य “प्रजापत्यं यदा{??}क्षं तथैतस्यां नराधिप! । सा महाकार्त्तिकी प्रोक्ता” उ- क्तायां रोहिणीनक्षत्रयुक्तायां कार्त्तिकपौर्णमास्याम् ।
शब्दकल्पद्रुमः
महाकार्त्तिकी || स्त्री (महती चासौ कार्त्तिकी चेति ।)
रीहिणीनक्षत्रयुक्ता कार्त्तिकी- पूर्णिमा । यथा, —
“प्राजापत्यं यदा ऋक्षं तथैतस्यां नराधिप ! । सा महाकार्त्तिकी प्रोक्ता देवानामपि दुर्लभा ॥” इति पाद्मे २ खण्डे ३ अध्यायः ॥