वाचस्पत्यम्
महाकाल || पु० कर्म० । १ अनवच्छिन्ने काले, २ शिवे च “महाकालेन च समम्” कालिकाध्यानम् । (माकाल) ३ लताभेदे रत्नमा० । ४ भैरवभेदे च “महाकालं यजेद्देव्या दक्षिणे धूम्रवर्णकम्” इति कालीतन्त्रम् ।
शब्दकल्पद्रुमः
महाकालः || पुं, (महांश्चासौ कालश्चेति ।)
विष्णु- स्वरूपाखण्डदण्डायमानसमयः । यथा । कालो घटवान् महाकालत्वात् । इति सिद्धान्त- लक्षणम् ॥ महादेवः । (तन्निरुक्तिर्यथा महा- निर्व्वाणतन्त्रे । ४ । ३१ । “कलनात् सर्व्वभूतानां महाकालः प्रकीर्त्तितः । महाकालस्य कलनात् त्वमाद्या कालिका परा ॥”)
प्रमथगणविशेषः । इति मेदिनी । ले, १५९ ॥ (उज्जयिनीस्थशिवलिङ्गविशेषः । यथा, कथा- सरित्सागरे । ११ । ३१ — ३२ । “अस्तीहोज्जयिनी नाम नगरी भूषणं भुवः । हसन्तीव मुधाधौतैः प्रासादैरमरावतीम् ॥ यस्यां वसति विश्वेशो महाकालवपुः स्वयम् । शिथिलीकृतकैलासनिवासव्यसनो हरः ॥” तीर्थविशेषः । यथा, महाभारते । ३ । ८२ । ४७ । “महाकालं ततो गच्छेत् नियतो नियताशनः । कोटितीर्थमुपस्पृश्य हयमेधफलं लभेत् ॥”)
लताविशेषः । माकाल इति भाषा ॥ तत्- पर्य्यायः । उरुकालः २ किम्पाकः ३ काक- मर्द्दकः ४ । इति रत्नमाला ॥ काकमर्द्दः ५ देवदालिका ६ दाला ७ दालिका ८ जलङ्गः ९ घोषकाकृतिः १० । इति राजनिर्घण्टः ॥ (यथा, “अन्तर्मलिनदेहेन बहिराह्लादकारिणा । महाकालफलेनेव कः खलेन न वञ्चितः ॥” इत्युद्भटः ॥)
शिवपुत्त्रविशेषः । तस्य जन्मवृत्तान्तं यथा, — श्रीदेवा ऊचुः । “एष वैश्वानरः श्रीमान् भूरितेजोमयो बली । महामैथुनबीजन्तु त्वत्तेजः संग्रहीष्यति ॥ इत्युक्त्वा त्रिदशाः सर्व्वे वीतिहोत्रं पुरःस्थितम् । तस्मै निदेशयामासुः सम्भवे सर्व्वहेतवे ॥ ततः षडङ्गं स्वं रेतो वादिते दहनानने । उत्ससर्ज्ज महाबाहुर्महामैथुनकारणम् ॥ अग्नावुत्सृज्यमानस्य तेजसः शशभृद्भृतः । अणुद्वयमतिस्वल्पं गिरिप्रस्थे पपात ह ॥ तयोः कारणयोः सद्यः संभूतौ शङ्करात्मजौ । एको भृङ्गसमः कृष्णो भिन्नाञ्जननिभोऽपरः ॥ भृङ्गी तस्य तदा ब्रह्मा नाम भृङ्गीति चाकरोत् । महाकृष्णैकरूपस्य महाकालेति लोकभृत् ॥ ततस्तौ पालयामास शङ्करः प्रमथोत्करैः । अपर्णया चापि तथा क्रमात्तावभिवर्द्धितौ ॥ प्रवृद्धौ तौ महात्मानौ हरोमाप्रतिपालितौ । क्रमाद्गणेशौ कृत्वा तौ हरो द्वारि न्ययो- जयत् ॥” इति कालिकापुराणे ४५ अध्यायः ॥ तस्य वानरमुखकारणं जन्मान्तरञ्च यथा, —
“अथैकदोमया सार्द्धं निगूढे रतिमन्दिरे । नर्म्माकरोन्महादेवो मोदयुक्तो रतिप्रियः ॥ यदा सा नर्म्मणे याता गौरी स्मरहरान्तिकम् । तदा भृङ्गिमहाकालौ द्वास्थौ द्वारि प्रतिष्ठितौ ॥ नर्म्मावसाने सा देवी मुक्तधम्मिल्लबन्धना । ग्रन्थिहीनगलद्गात्रा वस्त्रमालम्ब्य पाणिना ॥ व्यस्तहारा गन्धपुष्पैराकुलैर्नातिशोभना । विलुप्तकुङ्कुमा दष्टदशनच्छदविभ्रमा ॥ निःसृता रतिसङ्केतशालाया जलजानना । ईशदाघूर्णनयना निचिता स्वेदबिन्दुभिः ॥ तां निःसरन्तीं सहसा तथाभूतामनिन्दिताम् । अयोग्यां वीक्षितुं चान्यैर्वृषध्वजमृते प्रियम् ॥ ददृशतुर्महात्मानौ नातिहृष्टात्ममानसौ । भृङ्गी चापि महाकालः प्राप्तकालश्च कोपतः ॥ दृष्ट्वा तौ मातरं दीनौ तदा भूतावधोमुखौ । चिन्ताञ्चाजग्मतुस्तीव्रां निशश्वसतुरुत्तमम् ॥ तौ पश्यन्तां तदा देवी ददर्श हिमवत्सुता । चुकोप च तदापर्णा वाक्यञ्चैतदुवाच ह ॥ एवंभूतान्तु मां कस्मादसम्बद्धामपश्यताम् । भवन्तौ तनयौ शुद्धौ ह्रीमर्य्यादाविवर्ज्जितौ ॥ तस्मादिमाममर्य्यादां भवन्तौ निरपत्रपौ । अकुर्व्वातां ततो भूयाद्भवतोर्जन्म मानुषे ॥ मानुषीं योनिमासाद्य मातुरीक्षणदोषतः । भविष्यतो भवन्तौ तु शाखामृगमुखौ भुवि ॥ इति तावुमया शप्तौ हरपुत्त्रौ महामती ॥” “अथोमया समं देवो वियता चन्द्रशेखरः । आजगाम तदा गच्छन् प्रासादं प्रति तं नृप ! ॥ ददृशेऽथ चरन्तीं तामुमायाः सदृशीं गुणैः । सर्व्वलक्षणसम्पूर्णां माधवस्येव माधवीम् ॥ तां दृष्ट्वा न्यगदद्देवीं गौरीं वृषभकेतनः । स्मितप्रसन्नवदनः प्रहसन्निव भाविनीम् ॥ ईश्वर उवाच । इयं ते मानुषी मूर्त्तिः प्रिये तारावतीति या । भृङ्गीमहाकालयोस्ते जन्मने विहिता स्वयम् ॥ त्वत्तो ह्यनन्यकान्तोऽहं नान्यां गन्तुमिहोत्सहे । त्वमिदानीं स्वयं चास्यां मूर्त्त्यां प्रविश भाविनि ! ॥ तत उत्पादयिष्यामि महाकालञ्च भृङ्गिणम् ॥ श्रीदेव्युवाच । ममैव मानुषी मूर्त्तिरियं वृषभकेतन ! । विशामि तेऽत्र वचनादुत्पादय सुतद्वयम् ॥ प्रविवेश ततो देवी स्वयं तारावतीतनौ । महादेवोऽपि तस्यान्तु कामार्थं समुपस्थितः ॥ ततः सापर्णयाविष्टा देवी तारावती सती । कामयानं महादेवं स्वयमेवाभजन्मुदा ॥ तस्मिन् कालेऽभवद्गर्भः कापाली चास्थिमाल्य- धृक् । कामावसाने तस्यान्तु सद्यो जातं सुतद्वयम् । अभवन्नृपशार्दूल ! तथा शाखामृगाननम् ॥” इति कालिकापुराणे ४६ — ४९ अध्यायाः ॥ बाणासुरस्य महाकालत्वं यथा, — ऋषय ऊचुः । “कथितो भवता सर्गः संशया अपि शातिताः । त्वत्प्रसादान्महाभाग ! कृतकृत्या वयं गुरो ! ॥ भूयश्च श्रोतुमिच्छामो वयमेतद्द्विजोत्तम ! । कोऽन्यो भृङ्गी महाकालो जातौ वेतालभेरवौ ॥ वेतालञ्च महाकालं भैरवं भृङ्गिणं तथा । शृण मे द्विजशार्दूल ! कथमेषां चतुष्टयम् ॥ मार्कण्डेय उवाच । भुवं गते महाकाले मानुयस्थे च भृङ्गिणि । वेतालभैरवाख्ये च तथाभूते द्विजोत्तमाः ॥ वरलब्धे च वेताले भैरवे तेन संगते । अन्धकं तपसा युक्तं भृङ्गिणञ्चाकरोद्धरः ॥ अन्धकस्तु हरं पूर्ब्बं विरुध्यापदमागतः । पश्चाद्धरं समाराध्य पुत्त्रोऽभूत्तस्य सोऽसुरः ॥ भृङ्गिस्नेहाद्भृङ्गिणं तं सं ज्ञया चाकरोद्धरः । स्नेहेन तु महाकालं बाणं वलिसुतं हरः ॥ विष्णुना च्छिन्नबाहुं तं महाकालमथाकरोत् । एवं मुनिवरास्तेषां संजातञ्च चतुष्टयम् ॥ वेतालो भैरवो भृङ्गी महाकालेत्यनुक्रमात् ॥” इति कालिकापुराणे ८५ अध्यायः ॥ * ॥
तस्य ध्यानादि यथा, —
“महाकालं यजेद्देव्या दक्षिणे धूम्रवर्णकम् । बिभ्रतं दण्डखट्टाङ्गौ दंष्ट्राभीममुखं शिशुम् ॥ व्याघ्रचर्म्मावृतकटिं तुन्दिलं रक्तवाससम् । त्रिनेत्रमूर्द्ध्वकेशञ्च मुण्डमालाविभूषितम् ॥ जटाभारलसच्चन्द्रखण्डमुग्रं ज्वलन्निभम् ॥ तथा च कुमारीकल्पे । देव्यास्तु दक्षिणे भागे महाकालं प्रपूजयेत् । हुं क्ष्रौं यां रां लां वां क्रों महाकालभैरव सर्व्वविघ्नान्नाशय नाशय ह्रीं श्रीं फट् स्वाहा । इत्यनेन पाद्यादिभिराराध्य त्रिस्तर्पयित्वा मूलेन देवीं पञ्चोपचारैः पूजयेत् । तथा च काली- तन्त्रे । महाकालं यजेद्यत्नात् पश्चाद्देवीं प्रपूजयेत् । कालीकल्पे । कवचं क्ष्रौं समुद्धृत्य यां रां लां वाञ्च क्रोन्ततः । महाकालभैरवेति सर्व्वविघ्नान्नाशयेति च ॥ नाशयेति पुनः प्रोच्य मायां लक्ष्मीं समुद्धरेत् । फट् स्वाहया समायुक्तो मन्त्रः सर्व्वार्थसाधकः ॥” इति तन्त्रसारः ॥