संस्कृत-शब्दकोशः

महाकुम्भी महाकुलीन

महाकुल

वाचस्पत्यम्

महाकुल ||‍ न० कर्म० । “दशपुरुषविख्यातं श्रोत्रियाणां महाकुलम्” इति मनुनोक्ते दशपुरुषावधिवेदाध्यायिवंशे ।


शब्दकल्पद्रुमः

महाकुलः || त्रि (महत् कुल वशोऽस्य ।)
उत्तम- कुलजातः । तत्पर्य्यायः । कुलीनः २ आर्य्यः ३ सभ्यः ४ सज्जनः ५ साघुः ६ । इत्यमरः । २ । ७ । ३ ॥ कुल्यः ७ अभिजातः ८ कौलेयकः ९ जात्यः १० । इति हेमचन्द्रः । ३ । १६६ ॥ महाकुलः ११ कौलेयः १२ कोलेयकः १३ । इत्यमरटीका ॥ कुलजः १४ साधुजः १५ कुल- श्रेष्ठः १६ । इति शब्दरत्नावली ॥ (यथा, बृहत्- संहितायाम् । १७ । ४ । “भेदे वृष्टिविनाशो भेदः मुहृदां महाकुला- नाञ्च ॥” क्ली, उत्तमं कुलम् । यथा, राजतरङ्गिण्याम् । ३ । ६१ । “द्वयोरालोकितं चित्रं जन्मैकस्मिन् महा- कुले ॥”)



Correction: