संस्कृत-शब्दकोशः

महाकुल महाकुष्ठ

महाकुलीन

वाचस्पत्यम्

महाकुलीन ||‍ त्रि० महाकुले भवः खच् । महाकुलोद्भवे ।


शब्दकल्पद्रुमः

महाकुलीनः || त्रि (महाकुलस्य अपत्यम् । महा- कुल + “महाकुलादञ्खञौ ।” ४ । १ । १४१ । इति पक्षे खः ।)
महाकुलः । यथा, —
“महाकुलीन ऐक्ष्वाके वंशे दाशरथिर्मम । पितुः प्रियङ्करो भर्त्ता क्षेमकारस्तपस्विनाम् ॥” इति भट्टिः । ५ । ७७ श्लोकः ॥ (स्त्रियां टाप् । यथा, रामायणे । २ । २८ । ३ । “सीते ! महाकुलीनासि धर्म्मे च निरता सदा ॥”)



Correction: