संस्कृत-शब्दकोशः

महाकुलीन महाकूप

महाकुष्ठ

शब्दकल्पद्रुमः

महाकुष्ठं || क्ली (महच्च तत् कुष्ठञ्चेति ।)
बृहत्- कुष्ठरोगः । तत् सप्तविधं यथा, —
“पूर्ब्बत्रिकं तथा सिध्मं ततः काकणकं तथा । पुण्डरीकर्क्षजिह्वे तु महाकुष्टानि सप्त च ॥ पूर्ब्बत्रिकं कपालौदुम्बरमण्डलाख्यम् । सिध्म- शब्दोऽकारान्तो नपुंसकलिङ्गः । ननु कथं सिध्मस्य महाकुष्ठेषु गणना सुश्रुतेन क्षुद्र- कुष्ठेषुक्तत्वात् । उच्यते । त्वङ्मात्रगता सिध्म- पुष्पिका सुश्रुतेन च क्षुद्रकुष्ठेषूक्ता धातुषु प्रवि- ष्टन्तु सिध्मं महाकुष्ठमेव । एवंविधस्य सिध्मस्य चरकेण महाकुष्ठेषु दर्शितत्वात् । एषां महाकुष्ठत्वञ्च शीघ्रमुत्तरोत्तरधात्ववगाहनात् उल्वणदोषजन्यत्वात् चिकित्साबाहुल्याच्च ।” इति भावप्रकाशः ॥ (एषां चिकित्सा क्षुद्रकुष्ठ- शब्दे द्रष्टव्या ॥)



Correction: