संस्कृत-शब्दकोशः

महाजटा महाजम्बु

महाजन

वाचस्पत्यम्

महाजन ||‍ पु० कर्म० । वेदवाक्येषु श्रद्धावति जने । “महा- जनो येन गतः स पन्थाः” भा० व० यक्षप्रश्नः ।


शब्दकल्पद्रुमः

महाजनः || पुं, (महांश्चासौ जनश्चेति ।)
साधुः । यथा, महाभारते । ३ । ३१२ । ११२ । “वेदा विभिन्नाः स्मृतयो विभिन्ना नासौ मुनिर्यस्य मतं न भिन्नम् । धर्म्मस्य तत्त्वं निहितं गुहायां महाजनो येन गतः स पन्थाः ॥” मन्वादिः । यथा, —
“प्रायेण वेद तदिदं न महाजनोऽयं देव्या विमोहितमतिर्व्वत माययालम् । त्रय्यां जडीकृतमतिर्मधुपुष्पितायां वैतानिके महति मर्म्मणि युज्यमानः ॥” इति श्रीभागवते षष्ठस्कन्धे अजामिलोपाख्याने यमवाक्यव्याख्याने श्रीधरस्वामी ॥ (धनी । यथा, मृच्छकटिके । १ । “सङ्गं नैव हि कश्चिदस्य कुरुते सम्भाष्यते नादरात् संप्राप्तो गृहमुत्सवेषु धनिनां सावज्ञमालोक्यते । दूरादेवमहाजनस्य विहरत्यल्पच्छदो लज्जया मन्ये निर्धनता प्रकाममपरं षष्ठं महापात- कम् ॥”)



Correction: