संस्कृत-शब्दकोशः

महाजम्बु महाजव

महाजम्बू

वाचस्पत्यम्

महाज(म्बु)म्बू ||‍ स्त्री कर्म० । राजजम्बाम् रत्नमा० । दीर्घान्तः भावप्र० “राजजम्बूफलं स्वादु विष्टम्भि गुरु रोचनम्” ।


शब्दकल्पद्रुमः

महाजम्बूः || स्त्री (महती चासौ जम्बूश्चेति ।)
बृहज्जम्बुः । तत्पर्य्यायः । राजजम्बुः २ स्वर्ण- माता ३ महाफला ४ पिकप्रिया ५ कोकिलेष्टा ६ महानीला ७ बृहत्फला ८ । अस्य गुणाः । उष्णत्वम् । मधुररसत्वम् । कषायत्वम् । श्रम- हरत्वम् । झटित्यास्यजडिमनाशित्वम् । स्वर- करत्वम् । विष्टम्भित्वम् । शोषशमनत्वम् । भ्रमातीसारार्त्तिवर्द्धकत्वम् । श्वसितकफकास- प्रशमनत्वञ्च । इति राजनिर्घण्टः ॥ अपि च । “फलेन्द्रः कथितो नन्दो राजजम्बुर्महाफला । तथा सुरभिपत्रा च महाजम्बूरपि स्मृता ॥ राजजम्बूफलं स्वादु विष्टम्भि गुरु रोचनम् ॥” इति भावप्रकाशः ॥



Correction: